________________
चतुर्थः सर्गः। सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४॥
सहस्रेति ॥ सहस्रमिति संख्या येषां तैः सहस्रसंख्यैः शिरोभिः शिखरैः शीर्षश्च गगनं तथा तत्संख्यैः पादैः प्रत्यन्तपर्वतैश्चरणैश्च भुवं च व्याप्य वितिष्ठमानमवतिष्ठमानम् । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । विलोचनयोर्यत्स्थानं योग्यदेशस्तद्गतावुष्णरश्मिनिशाकरौ यस्य तम् । अन्यत्र नेत्रीकृतार्केन्दुमित्यर्थः । अतः साधु सत्यं हिरण्यगर्भ ब्रह्माणमिवेत्युत्प्रेक्षा । 'सहस्रशीर्षा' इत्यादिश्रुतेरिति भावः । हिरण्यगर्भो निधिगर्भश्च ॥ क्वचिजलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभमानमिव स्मरारिम् ॥५॥ क्वचिदिति ॥ पुनः क्वचिदेकदेशे जलानामपायेनापगमेन विपाण्डुराणि शुभ्राणि अतएव धौतं क्षालितं यदुत्तरीयं तत्प्रतिमा तत्समा छविर्येषां तान्यभ्राणि मेघान्बिभ्राणं दधानम् । भृजः कर्तरि शानच् । अत एवोमायाः पार्वत्या अङ्गसङ्गेनार्धभागेन विभक्तं एकभागस्थापितं भस्म यस्य तं स्मरारि हरमिव स्थितमित्युपमालंकारः॥
छायां निजस्त्रीचटुलालसानां मदेन किंचिच्चटुलालसानाम् । कुर्वाणमुत्पिञ्जलजातपत्रैविहंगमानां जलजातपत्रैः॥६॥
छायामिति ॥ पुनः निजस्त्रीणां चटुषु प्रियवचनेषु लालसा लोलुपाः । 'लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि च' इति यादवः। तेषां निजस्त्रीचटुलालसानां मदेन किंचिदीषच्चटुलाश्चपलास्तेऽलसाश्च । विशेषणयोरपि मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । तेषां चटुलालसानां विहंगमानां हंसादीनामुत्पिञ्जलानि जातान्युत्पिालजातानि । पूर्ववत्समासः। तानि पत्राणि येषां तैरुत्पिञ्जलजातपत्रैः । उत्पिञ्जरीभूतलैरित्यर्थः । रलयोरभेदः । जलजातपत्रै लजैरेवातपत्रैश्छायां कुर्वाणम् । एतेन महती कमलाकरसमृद्धिय॑ज्यते । यमकरूपकयोः संकरः ॥
स्कन्धाधिरूढोज्वलनीलकण्ठानुर्वी रुहः श्लिष्टतनूनहीन्द्रैः। प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥ ७ ॥ स्कन्धेति ॥ पुनः स्कन्धं प्रकाण्डमधिरूढा उज्वला नीलकण्ठा मयूरा येषां तान् , अन्यत्र स्कन्धाधिरूढा अंसस्थिता नीलाः कण्ठा येषां तान् । 'अंसप्रकाण्डयोः स्कन्धः' इति विश्वः । अहीन्द्रैः श्लिष्टतनून्व्याप्तदेहान् । एकत्र तदावासत्वादन्यत्र तद्भूषणत्वाञ्चेति भावः । प्रनर्तितान्यनेकलतानामेव भुजानां लतानामिव च भुजानामग्राणि येषां तानत एवानन्तानसंख्यान्रुद्रानिव स्थितानित्युप्रेक्षा । उर्वीरुहो वृक्षान्धारयन्तमुद्वहन्तम् ॥