________________
शिशुपालवधे
चतुर्थः सर्गः। निःश्वासधूमं सह रत्नभाभिर्भित्वोत्थितं भूमिमिवोरगाणाम् । नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥ १ ॥ निःश्वासेति ॥ नीलोपलैरिन्द्रनीलमणिभिः स्यूताः प्रोता विचित्रा नानावर्णा धातवो गैरिकादयो यस्य तम् । अत एव रत्नभाभिर्मणिप्रभाभिः सह भूमि भित्त्वोत्थितमूर्ध्वं निर्गतं उरगाणां निःश्वासधूमं फूत्कारबाप्पमिव स्थितं रैवतकाख्यं गिरिमसौ हरिददर्श । स्यूतेति सीव्यतेः कर्मणि क्तः। 'च्छ्वोः शूडनुनासिके च' इत्युडादेशे यणादेशः । अत्र गिरेर्विशिष्टवर्णनीयत्वेन विशिष्टधूमत्वोप्रेक्षणाद्गुणनिमित्तजातिस्वरूपोत्प्रेक्षा । सर्गेऽस्मिन्नानावृत्तानि । तत्रादावष्टादशोपजातयः । तल्लक्षणं तूक्तमतीतानन्तरसर्गादौ । अनासर्गसमाप्तेगिरिवर्णनमेव ॥ गिरिं ददर्शेत्युक्तम् , कीदृगित्याकाङ्क्षायामेकान्वयेनाष्टाभिर्विशिनष्टिगुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानः । विन्ध्यायमानं दिवसस्य भर्तुर्मार्ग पुना रोद्भुमिवोन्नमद्भिः॥२॥
गुर्वीरिति ॥ गुर्वीमहतीईषदः । शिलातटीरित्यर्थः । 'पाषाणप्रस्तरग्रावोपलाइमानः शिला दृषत्' इत्यमरः। उपर्युपरि दृषदां समीपे । उपरिप्रदेश इत्यर्थः । 'उपर्यध्यधसः सामीप्ये' इति द्विर्भावे तद्योगाद्वितीयेति । यथाह वामनः-'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । समन्तादजस्रमुन्नमद्भिः । देशकालाविच्छेदेनोत्पतद्भिरित्यर्थः । अत एव तैरम्बुमुचां वितानैर्मेघवृन्दैनिमित्तैर्दिवसस्य भर्तुः सूर्यस्य मार्ग पुना रोद्धम् । संहितायां रोरि' इति रलोपः 'ढलोपे-' इति दीर्घः। विन्ध्यायमानमिव विन्ध्यवदाचरन्तम् । तद्वद्वर्धमानमिव स्थितमित्यर्थः । आचारे क्यङन्ताल्लटः शानजादेशः । अत्राविच्छिन्नमेघोन्नमनेन विन्ध्यायमानत्वोत्प्रेक्षणाक्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा ॥
क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् । श्रितं शिलाश्यामलताभिरामं लताभिरामत्रितषट्पदाभिः ॥३॥
क्रान्तमिति ॥ पुनर्नवानि प्रभाजालानि बिभ्रतीति नवप्रभाजालभृतस्तेषां मणीनां संबन्धिन्या काञ्चनवप्रभाजा स्वर्णसानुप्रसृतया रुचा दीत्या क्रान्तं व्याप्तम् । पुनः शिलानां मेचकोपलानां, इन्द्रनीलानां वा श्यामलतया श्यामलिम्ना अभिरामम् । तथा आमन्त्रितषट्पदाभिर्मकरन्दपूरितत्वादाहूतभृङ्गाभिर्लताभिः श्रितं व्यातम्। इतःपरं ध्यन्तरमेकं यमकं वक्ष्यति। तत्र तदेवालंकारः । अर्थालंकारस्त्वभ्युच्चेय इति यथासंभवमूह्यम् । यमकलक्षणं त्वाचार्यदण्डिनोक्तम् -- 'अव्यपेतव्यपेतात्मा या वृत्तिर्वर्णसंहतेः। यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादयमकानां प्रकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ अत्यन्तंबहवस्तेषां भेदाः संभेदयोनयः । सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ॥' इति ॥