________________
प्रथमः सर्गः ।
२५ च। 'भुजंगो विटसर्पयोः' इति हलायुधः। न भेजे वक्तः । भुजैर्गच्छन्तीति भुजंगाः। गमेः सुपि 'खच् च डिद्वा वाच्यः' । तस्मिन्नियन्तरि खलैः खलत्वमपि, सपैंः सर्पत्वमपि विहाय वेषभावक्रियाभिः सौम्यत्वं श्रितमित्यर्थः । अत्र प्रस्तुतसर्पविशेषणसाम्यादप्रस्तुतखलव्यवहारप्रतीतेः समासोक्तिः ॥ तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः । गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्भि दिग्गजैः॥६॥
तदीयेति ॥ तदीयमातङ्गानां घटाभिव्यूहैः विघहितैरभिहतैः । 'गजानां घटना घटा' इत्यमरः । अतएव कटस्थलेभ्यः प्रोषितान्यपगतानि दानवारीणि येषां तैः । गृहीताः पलाय्य संश्रिता दिशो यैस्तैर्गृहीतदिक्कैः । 'शेषाद्विभाषा' इति कप् । अपुनर्निवर्तिभिर्भयात्तत्रैव स्थितैर्दिग्गजैः चिराय याथार्थ्य दिक्षु स्थिता ॥ गजा दिग्गजा इत्यनुगतार्थनामकत्वमलम्भि लब्धम् । लभेय॑न्ताकर्मणि लुङ । विभाषा चिण्णमुलोः' इति विकल्पान्नुमागमः ॥ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा । सचन्दनाम्भःकणकोमलैस्तथा वपुर्जला पवनैर्न निर्ववौ ॥६५॥
अभीक्ष्णमिति ॥ ऊष्मणा सरज्वरेण सहितः सोमा तस्य सोष्मणस्तस्य रावणस्य वपुरभीक्ष्णं भृशमुष्णैरपि । शोकादिति भावः । सुरेन्द्रस्य बन्यः बन्दीकृताः स्त्रियः तासां श्वसितानिलैनिःश्वासमारुतैर्यथा निर्ववौ निर्वृतम् । 'निर्वाणं निर्वृतौ मोझे' इति वैजयन्ती । तथा सचन्दनाम्भःकणाः चन्दनोदकबिन्दुसहिताः ते च ते कोमला मृदुलाश्च तैर्जलाणां जलोक्षिततालवृन्तानां पवनैर्न निर्ववौ । 'धुवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनं च तत्' । 'जलेना जलार्दा स्यात्' इति वैजयन्ती । अत्र संतप्तस्योष्णोपचारान्निर्वृतिरिति कारणविरुद्ध कार्योत्पत्ति. रूपो विषमालंकारः ॥ तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनतृप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥६६॥
तपेनेति ॥ सदा नित्यं नतु यथाकालं प्रसूनक्लुप्तिं कुसुमसंपत्तिम् । 'प्रसून कुसुम सुमम्' इत्यमरः । दधतो धारयन्तः ऋतवो वर्षाः प्रावृद तपेन ग्रीष्मेण । 'ऊष्ण ऊष्मागमस्तपः' इति, 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्' इति चामरः। तथा हिमागमो हेमन्तः शरदा, तथा शिशिरो वसन्तलक्ष्म्या च समेत्य मिथुनीभावेन मिलित्वा अस्य रावणस्य पुरे वसन्तीति वास्तव्या वस्तारः । 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत्प्रत्ययः। ते च कुटुम्बिनश्च तेषां भावं तत्ताम् । प्रतिवासित्वमित्यर्थः। ययुः समेत्य ययुरिति समुदायसमुदायिनोरभेदविवक्षया समानकर्तृकत्वम् । अत्र पुरे युगपत्सर्वर्तुसंबन्धाभिधानादसंबन्धे संबन्धरूपातिशयोक्तिः ॥ १ तपेन ६५, अभीक्ष्ण-६६, एवं विलोमक्रमेणोपलभ्येते.
शिशु०३