________________
शिशुपालवधे स चायमासन्नविनाशस्तुभ्यमपि दुग्ध्वा पुनस्त्वयैव हत इति युग्मेनाहअमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः । मुमोच जानन्नपि जानकी न यः सदाभिमानकधना हि मानिनः ६७
अमानवमिति ॥ मनोरयं मानवः । 'तस्येदम्' इत्यण्प्रत्यये पर्यवसानाजातावेकवचनम् । अन्यथा मनोर्जातमित्येव स्यात् । अमानवममानुषम् । न जायत इत्यजम् । 'अन्येष्वपि दृश्यते' इति डप्रत्ययः। तथापि मनोः कुले जातं रामस्वरूपेणोत्पन्न मिति विरोधः। स चाभासत्वादलंकार इत्याह-प्रभाविनमिति । महानुभावे तस्मिन्न कश्चिद्विरोध इति भावः । 'आभीक्ष्ण्ये णिनिः' इति णिनिः । इनिर्वा मत्वर्थीयः। भवन्तमिति शेषः । आत्मनः स्वस्यान्तमिति अन्तं करोतीत्यन्तम् । अन्तशब्दात् 'तत्करोति-' इति ण्यन्तात्पचाद्यच् । भाविनं भविष्यन्तम् । 'भविष्यति गम्यादयः' । जाननपि यो रावणः जनकस्यापत्यं स्त्री जानकी सीता तां न सुमोच नामुञ्चदित्यन्वयः। जानतोऽप्यमोचने कारणमाह-मानिनः सदा प्राणात्ययेऽप्यभिमान एवैकं मुख्यं धनं येषां ते। प्राणात्ययेऽपि न मानं मुञ्चन्तीत्यर्थः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् । पयोधिमाबद्धचलजलाविलं विलक्ष्य लङ्कां निकषा हनिष्यति ॥६८।।
स्मरतीति ॥ भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । 'अत इस्' इतीप्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्लादिभिर्बद्धसेतुः अतएव चलन्ति जलानि यस्य स च अतएव आविलश्च तं आबद्धचलजलाविलं पयोधिं विलक्ष्य लङ्कां निकषा लङ्कासमीपे, 'समयानिकपाशब्दो सामीप्ये त्वन्यये मतौ' इति हलायुधः । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । हनिष्यति अवधीत् । 'अभिज्ञावचने लद' इति भूते लुटू । अदो हननं भवान्सरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥
अथोपपत्ति छलनापरोऽपरामवाप्य शैलूप इवैष भूमिकाम् । तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति मोऽप्यसः परैः ६९ __ अथेति ॥ अथ राक्षसदेहत्यागानन्तरं संप्रति छलनापरः परप्रतारणापरः एष रावणः शैलुषो नटः तस्य भूमिका रूपान्तरमिव । 'शैलूषो नटभिल्लयोः' । 'भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे' इति विश्वः । अपरामुपपत्तिम् । जन्मान्तरमित्यर्थः । अवाप्य शिशुपालसंज्ञया तिरोहितात्मा तिरोहितस्वरूपः सन सोऽपि रावण एव सन्नपि परैरितरैः स न भवतीत्यसः तस्मादन्य एव । 'न' इति नञ्समासः । अतएव 'एतत्तदोः सुलोपो-' इत्यादिना न सुलोपः ।