________________
प्रथमः सर्गः। प्रतीयते ज्ञायत इति प्रतिपूर्वादिणः कर्मणि लट् । यथैक एव शैलूषो रूपान्तरमास्थाय तद्देशभाषादिभिरन्य एव प्रतीयते तद्वदयमपि मानुषदेहपरिग्रहादन्य इव भाति । दौर्जन्यं तु तदेवेत्यवश्यं संहार्य इति भावः ॥
अथैतद्दौर्जन्यं त्रिभिराविष्करोतिस बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः । युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः॥ ७० ॥
स बाल इति ॥ स शिशुपालो बालः सन् वपुषा चतुर्भुजो भुजचतुष्टयवा. नासीत् । विष्णुरिति ध्वनिः । मुखेन पूर्णेन्दुनिभस्तत्तुल्यः त्रिलोचनो लोचनत्रयवानासीत् । त्र्यम्बक इति ध्वनिः । बालविशेषणात्संप्रति तत्सर्वमन्तर्हितमिति भावः । संप्रति तु युवा सन्करेण बलिना आक्रान्तमहीभृदधिष्ठितराजकः सन् । अन्यत्रांशुब्याप्तशैलः । 'बलिहस्तांशवः कराः' इत्यमरः । उच्चकैस्तेजसा रविरसंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः। वपुषा मुखेन चेति येनाअविकारः' इति तृतीया । हानिवदाधिक्यस्यापि विकारत्वात् । तथाच वामनः'हानिवदाधिक्यमप्यङ्गविकारः' इति । तेजसेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया। कराकान्तेत्यादिना श्लेषानुप्राणितेयमुत्प्रेक्षा। रविरसंशयमिति तस्य पूर्णे. न्दुनिभ इत्युपमया संसृष्टिः । हरिहरादितुल्यमहिमत्वादतिदुर्धर्षः स इति भावः ।। खयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया। दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्हसत्यसौ॥ ७१॥
खयमिति ॥ यदृच्छया स्वेच्छया स्वयं सामर्थ्येन । नतु देवताप्रसादबलादिति भावः । सुरदैत्यरक्षसां देवदानवयातुधानानामनुग्रहावग्रहयोः प्रसादनिग्रहयोर्विधाता कर्ता असौ शिशुपालः अभिराद्धाभिराराधिताभिर्देवताभिरीश्वरादिभिर्वितीर्णो दत्तो वीर्यातिशयः प्रभावातिशयो येषां तान्दशाननादीन्हसति । अनन्यप्रसादलब्धैश्वर्ये मयि कथं याचकैस्तुल्यतेति गर्वाद्धसतीत्यर्थः ॥ बलावलेपादधुनापि पूर्ववत्प्रवाध्यते तेन जगजिगीषुणा । सतीव योषित्प्रकृतिःसुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥७२॥
बलेति ॥ जिगीषुणा । नित्योत्साहवतेत्यर्थः । तेन शिशुपालेन बलावलेपाबलगर्वादधुनापि पूर्ववत्पूर्वजन्मनीव जगत्प्रबाध्यते । तथाहि-सती पतिव्रता योषिदिव सुनिश्चलातिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुमांसमभ्येति । 'पतिं या नाभिचरति मनोवाकायसंयता । सा भर्तुर्लोकमामोति सद्भिः साध्वीति चोच्यते ॥' इति मनुः । उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः ॥ तदेनमुल्लवितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् । शुभेतराचारविपक्रिमापदो निपातनीया हि सतामसाधवः ॥७३॥ तदेनमिति ॥ तत्तस्माद्विधेर्विधातुरप्युल्लचितशासनम् । स्वयं विधातेत्याधुक्त