________________
शिशुपालवधे
रीत्यातिक्रान्तदैवशासनमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । एनं शिशुपालं कीनाशनिकेनातिथिं कीनाशो यमस्तस्य निकेतनं गृहं तत्रातिथिं प्राघुणिकं विधेहि कुरु । यमगृहं प्रेषयेत्यर्थः । ' कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः' इति विश्वः । न चैतत्प्राघुणिकहस्तेन सर्पमारणं भवादृशामवश्यकर्तव्यत्वादित्याह — शुभेतराचारेण दुराचारेण विपक्रिमाः परिपाकेन निर्वृत्ताः कालपरिपाकेन प्राप्ता आपदो येषां ते तथोक्ताः । 'द्वितः क्रिः' इति पचेः क्रिप्रत्ययः । 'क्रेर्मनित्यम्' इति तद्धितो मम्प्रत्ययः । असाधवो दुष्टाः सतां भवादृशां जगनियन्तॄणां निपातनीयाः वध्या हि । नच नैर्घृण्यदोषः । स्वदोषेणैव तेषां विनाशे निमित्तमात्रत्वादस्माकमित्याशयेन शुभेतराचारेत्यादिविशेषणोक्तिः । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः ॥
२८
किंचैवं दुष्टनिग्रहे शिष्टानुग्रहः स्यादित्याह - हृदयमरिवधोदयादुदृढद्रढिम दधातु पुनः पुरंदरस्य । घनपुलकपुलोमजाकुचाग्रद्भुतपरिरम्भनिपीडनक्षमत्वम् ॥ ७४ ॥
हृदयमिति ॥ अरिवधोदयाद्रिपुनाशलाभात् । उदूढद्रढिम नैश्चिन्त्याद्धृतदाढर्व्यम् । स्वस्थमिति यावत् । पृथ्वादित्वादृढशब्दादिमनिच्प्रत्ययः । ' र ऋतो हलादेर्लघोः' इति ऋकारस्य रेफादेशः । पुरः शत्रुपुराणि दारयतीति पुरंदर इन्द्रः । 'पूःसर्वयोर्दारिसहो:' इति खच्प्रत्ययः । 'खचि ह्रस्वः' इत्युपधाहस्वः । 'वाचंयमपुरंदरौ च' इति निपातनाददन्तत्वं मुमागमश्च । तस्य हृदयं पुनर्भूयो - ऽपि । पूर्ववदेवेति भावः । घनपुलकयोः सान्द्ररोमाञ्चयोः । पुलोम्नो जाता पुलोमजा शची तस्याः कुचाग्रयोर्युतपरिरम्भ औत्सुक्याच्छीघ्रालिङ्गनं तत्र यत्पीडनं तस्य क्षमत्वं सहत्वं दधातु । प्राक्चित्तविक्षेपात्यक्तभोगेन शक्रेण संप्रति त्वत्सादान्निष्कण्टकं स्वकीयं राज्यं भुज्यतामित्यर्थः । अत्र दार्व्यपदार्थस्योदूढद्र टिमेति विशेषणगत्या निपीडनक्षमत्वं प्रति हेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गम् । हृदय निपीडनक्षमत्व संबन्धेऽप्यसंबन्धोक्त्या संबन्धेऽसंबन्धरूपातिशयोक्तिरित्यर्यालंकारो वृत्त्यनुप्रासश्च तैरन्योन्यं संसृज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुग रेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभ
स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति । शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम् ॥ ७५ ॥
इति माघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के कृष्णनारदसंभाषणं नाम प्रथमः सर्गः ॥ १ ॥
१ 'दुपोढ', 'दवाप्त' इति वा पाठ: २ 'कर्तुं मतिं संयति', 'कर्तुं मति संयुगे' इति च पाठौ. ३ 'नारदागमनविसर्जनी' इति पाठः.