________________
द्वितीयः सर्गः। ओमिति ॥ तस्मिन्सुरमुनी नारदे इति इत्थंभूतां वाचं व्याहृत्योक्त्वा नभ उत्पतिते समुद्गते पुरोऽग्रे इन्दोः श्रियं बिभ्रति सति । अथ मुनिवाक्यानन्तरमो. मित्युक्तवतस्तथास्वित्यङ्गीकृतवतः। 'ओम्प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः। चेदीनां जनपदानामयं चैद्यः शिशुपालः । 'वृद्धत्कोसलाजादाब्यङ्' इति ब्यङ्प्रत्ययः । तं प्रति क्रुद्धस्य शाङ्गिणो वदने व्योम्नीवानिशं सर्वदा। अव्यभिचारेणेत्यर्थः । शत्रूणां विनाशस्य पिशुनः सूचकः । 'चन्द्रमभ्युत्थितः केतुः क्षितीशानां विनाशकृत्' इति शास्त्रादिति भावः। केतुरुत्पातविशेषः। 'केतुर्युतौ पताकायां ग्रहोत्पातारिलक्ष्मसु' इत्यमरः । भृकुटिच्छलेन भ्रभङ्गब्याजेनास्पदं प्रतिष्ठा स्थितिं चकार । 'आस्पदं प्रतिष्ठायाम्' इति निपातनात्सुडागमः । अनेन वाक्यार्थभूतस्य वीररससहकारिणो रौद्रस्य स्थायी क्रोधः स्वानुभावेन भ्रुकुव्या कारणभूतोऽनुमेय इत्युक्तम् । तथा तदविनाभूतस्याङ्गिनो वीरस्य स्थायी प्रयत्नोपनेय उत्साहोऽप्युत्पन्न एवेत्यनुसंधेयम् । इन्दोः श्रियं बिभ्रतीत्यत्र मुनेरिन्दुश्रियोऽयोगात्तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धरूपो निदर्शनालंकारः । वदने व्योम्नीवेत्युपमा । भ्रुकुटिच्छलेन केतुरिति छलादिशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवः । तत्र शत्रुविनाशसूचके त्वपेक्षितेन्दुसान्निध्यव्योमावस्थानसंपादकत्वे निदर्शनोपमयोरपह्नवोपकारसत्त्वादङ्गाङ्गिभावेन संकरः। चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु श्रीशब्दप्रयोगः। यथाह भगवान्भाष्यकारः-'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते, वीरपुरुषाण्यायुष्मत्पुरुषाणि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति' इति । शार्दूलविक्रीडितं वृत्तम् । 'सूर्याश्वर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् । सर्गान्तत्वाद्वृत्तभेदः । यथाह दण्डी–'सगैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरक्षकम् ॥' इति ।
अथ कविः कविकाव्यवर्णनीयाख्यानपूर्वकसर्गसमाप्तिं कथयति-इतीति । इतिशब्दः समाप्तौ । माघकृताविति कविनामकथनम् । महाकाव्ये इति महच्छ. ब्देन लक्षणसंपत्तिः सूचिता । शिशुपालवध इति काव्यनामकथनम् । प्रथमः सर्ग इति समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध.
काव्यव्याख्याने सर्वकषाख्ये प्रथमः सर्गः ॥१॥
द्वितीयः सर्गः। अस्मिन्सर्गे मन्त्रवर्णनाय बीजं वपतियियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् । अभियं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥१॥