________________
शिशुपालवधे
यियक्षमाणेनेति ॥ अथेन्द्र संदेशश्रवणानन्तरं यियक्षमाणेन यष्टुमिच्छता । यजतेः सन्नन्ताल्लटः शानच् । पार्थेन पृथापुत्रेण युधिष्ठिरेण | 'तस्येदम्' इत्यण् । अन्यथा 'स्त्रीभ्यो ढक् स्यात् । ततः पार्थेय इति स्यात् । आहूत आकारितः । ह्वयतेः कर्मणि ते संप्रसारणदीर्घौौं । तथा अभिचैद्यं शिशुपालं प्रति । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । 'अभिरभागे' इति कर्मप्रवचनीयत्वे तद्योगे द्वितीया वा । प्रतिष्ठासुः प्रस्थातुमिच्छुः । तिष्ठतेः सन्नन्तादुप्रत्ययः । मुरं द्विषन्मुरारिः । 'द्विषोऽमित्रे' इति शतृप्रत्यये 'न लोका-' इत्यत्र 'द्विषः शतुर्वा' इति वैकल्पिकः षष्ठीप्रतिषेधः । कार्यद्वयेन सुरकार्य सुहृत्कार्य रूपेणाकुलो विप्रतिषेधादावश्यकत्वाच्च द्वयोः संदिहान आसीत् । अतो मन्त्रस्यायभवसर इति भावः ॥
एवं मन्त्रबीज संदेहमुपन्यस्य मन्त्रोचितं देशमाह -
३०
सांधमुद्धवसीरिभ्यामथासावासदत्सदः ।
गुरुकाव्यानुगां विभ्रच्चान्द्रमभिनभः श्रियम् ॥ २ ॥
सार्धमिति ॥ अथ संदेहानन्तरमसौ हरिः अभिनभः । पूर्ववदव्ययीभावः । कर्मप्रवचनीयत्वे वा द्वितीया । गुरुकाव्यौ बृहस्पतिशुक्रावनुगावनुयायिनौ यस्यां ताम् । 'गीष्पतिर्धिषणो गुरुः' इति 'शुक्रो दैत्यगुरुः काव्यः' इति चामरः । चन्द्रमां चान्द्रीं श्रियं बिभ्रत् । अत्र श्रीतुल्यां श्रियमिति निदर्शनाभेदः - उद्धवसीरिभ्यां सार्धमुद्धवरामाभ्यां सह सदः सभामासददगमत् । राजसदसः प्रासादत्वादिति भावः । सदेर्लुङि 'पुषादि-' इति चलेरङादेशः । अत्र मनुः - 'गिरिपृष्टं समारुह्य प्रासादं वा रहो गतः । अरण्ये निःशलाके वा मन्त्रयेद्भावभावितौ ॥' इति ॥ जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥
जाज्वल्यमानेति ॥ जगतः शान्तयेऽनुपद्रवाय समुपेयुषी मिलिता जाज्वल्यमाना भृशं ज्वलन्ती । 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' । ततो लटः शानजादेशे टाप् । असौ नराः पुरुषा एव शिखिनोऽग्नयस्तेषां त्रयी । 'द्वित्रिभ्याम् -' इत्यादिना तयस्यायजादेशे कृते 'टिड्ढाणज् -' इत्यादिना ङीप् । सभा आस्थानी सैव वेदिः । 'वेदिः परिष्कृता भूमिः' इत्यमरः । तस्यां व्यद्योतिष्ट दीप्यते स्म । 'यो लुङि' इति वा तङ् । रूपकालंकारः ॥ रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनोऽपि परितः पौरुषेयवृता इव ॥ ४ ॥
रत्नेति ॥ रत्नानां स्तम्भा इति षष्ठीसमासविशेषे पर्यवसानाद्विकारार्थत्वम् । तेषु संक्रान्तप्रतिमाः संक्रान्तप्रतिबिम्बाः । ' प्रतिमानं प्रतिबिम्बं प्रतिमा -' इत्यमरः । dar एकाकिनोsसहाया अपि । 'एकादा किनिच्चासहाये' इत्याकिनिच्प्रत्ययः । परितोऽभितः सर्वतः । 'पर्यभिभ्यां च' इति तसिल्प्रत्ययः । स च सर्वो भयार्था
1
१ पूर्वोत्तरार्धव्यत्यासेन पाठः.