________________
द्वितीयः सर्गः। भ्यामिप्यते । पौरुषेयेण प्रतिबिम्बभूयस्त्वात्पुरुषसमूहेनावृता इवेत्युत्प्रेक्षा । चकाशिरे । 'सर्वपुरुषाभ्यां णढो', 'पुरुषाद्वधविकारसमूहतेनकृतेविति वक्तव्यम्' इति समूहे ढञ्प्रत्ययः। एतेन विजयत्वमुक्तम् । यद्यपि 'निस्तम्मे निर्गवाक्षे च निर्भित्त्यन्तरसंश्रये । प्रासादाने त्वरण्ये वा मन्त्रयेद्भावभाविनौ ।' इति कामन्दकीये मन्त्रभूमेः स्तम्भप्राचुर्यनिषेधो गम्यते, तथापि तस्यापि विज. नोपलक्षणत्वाददोष इति भावः ॥
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी।
तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥५॥ अध्यासामासुरिति ॥ अमी यो यान्युत्तुङ्गहेमपीठान्यासनानि अध्यासामासुरधितष्ठः । येषूपविष्टा इत्यर्थः । 'अधिशीस्थासां कर्म' इति कर्मत्वम् । 'भास उपवेशने' लिद । 'दयायासश्च' इत्याम्प्रत्ययः। 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः । 'आम्प्रत्ययवत्कृतोऽनुप्रयोगस्य' इति कृज एवेति नियमादस्खे. नात्मनेपदम् । तैः पीठः केसरिभिः सिंहैः कान्तानां त्रिकूटस्य त्रिकूटाद्रेः शिखराणामुपमा सादृश्यमूहे ऊढा । वहेः कर्मणि लिट् । संप्रसारणम् । त्रीणि कुटान्यस्येत्यन्वर्थसंज्ञा । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । उपमालंकारः॥
गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः।
हरिविप्रतिषेधं तमाचचक्षे विचक्षणः ॥६॥ गुर्विति ॥ अथोपवेशनानन्तरं विचष्टे इति विचक्षणो वक्ता । कर्तरि ल्युडिति न्यासकारः । 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिङः ख्याजादेशाभावः । हरिगुर्वोरुद्धवरामयोः पितृव्यज्येष्ठभ्रात्रोद्धयाय । द्वाभ्यामित्यर्थः । गुरुणोमहतोरुभयोः कार्ययोः पूर्वोत्कयोः तं विप्रतिषेधं विरोधमाचचक्षे आख्यातवान् । तुल्यबलविरोधो विप्रतिषेधः ॥
घोतितान्तःसभैः कुन्दकुड्मलाग्रदतः सितैः ।
स्त्रपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥७॥ द्योतितेति ॥ कुन्दं माघभवः पुष्पविशेषः । 'माध्यं कुन्दम्' इत्यमरः। कुन्दकुड्मलाग्राणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः। 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' इत्यग्रान्तपूर्वपदबहुव्रीहेः समासान्ते वैभाषिको दतादेशः । तस्य हरेः सर. स्वती अन्तःप्रधाना सभा अन्तःसभा । सभाभ्यन्तरमित्यर्थः। सा द्योतिता प्रकाशिता यैस्तैः स्मितैः स्नपितेव क्षालितेव । स्नातेय॑न्तात् क्तः । 'अर्तिही-' इत्यादिना पुगागमः। मितां हस्वः। शुद्धवर्णा स्फुटाक्षरत्वात्स्वच्छकान्तिरभवत् । अत्र स्वाभाविकवर्णशुद्धेः सानहेतुकत्वमुत्प्रेक्ष्यते । स्मितपूर्वाभिभाषी हरिरिति भावः । कार्यविप्रतिषेधं निवेद्य तत्र स्वमतमावेदयिष्यन्पण्डितमानित्वं तावत्परिहरति
भवद्रािमवसरप्रदानाय वचांसि नः। पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः॥८॥