________________
शिशुपालवंधे भवद्रािमिति ॥ भवद्गिरां युष्मद्वाचामवसरप्रदानाय । प्रसञ्जनायेत्यर्थः । नोऽस्माकं वचांसि सिद्धान्तोन्नयनार्थमुच्यन्ते । न तु सिद्धान्तत्वेनेत्यर्थः। तथाहि-पूर्व रज्यतेऽस्मिन्निति पूर्वरङ्गः नाट्यशाला, तत्स्थं कर्मापि पूर्वरङ्ग इति दशरूपके । अतः पूर्वरङ्गो नाम रङ्गप्रधानाख्यो रङ्गविघ्नशान्तिकारी नान्दीपाठगीतवादित्राद्यनेकाङ्गविशेषो नाट्यादौ कर्तव्यः कर्मविशेषः । तदुक्तं वसन्त. राजीये-'यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः प्रकीर्तितः ॥' इति । स पूर्वरङ्गः नाटके भवं नाटकीयम् । तत्र वर्ण्यमित्यर्थः । वृद्धाच्छः । तस्य 'आयनेयी-' इतीयादेशः। तस्य वस्तुनः प्रवृत्तस्य प्रसङ्गाय प्रसञ्जनाय । प्रवर्तनायेति यावत् । अतः प्रथममादौ न दोषायेति भावः । पूर्वरङ्गः प्रस्तावनेति रङ्गराजः । तच्चिन्त्यम् । 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिगते । प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः ॥ प्रथमं पूर्वरङ्गश्च ततः प्रस्तावनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते ॥' इति दशरूपकाद्युक्तभेदविरोधादिति अत्र हरिवाक्यपूर्वरङ्गयोः प्रसञ्जकत्वस्वरूपसामान्यस्य वाक्यद्वये शब्दान्तरे पृथनिर्देशात्प्रतिवस्तूपमालंकारः । तल्लक्षणं तूक्तम् ॥ संप्रति स्वमतमाह
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
विनाप्यसदलंभूष्णुरिज्यायै तपसः सुतः॥९॥ करदीकृतेति ॥ दिशां जित्वरैर्जयनशीलैः । 'इणनशजिसर्तिभ्यः क्वरप्' । कृद्योगात्कर्मणि षष्ठी । भ्रातृभिर्भीमादिभिहेतुभिः । करदाः षष्ठभागप्रदाः । 'भागधेयः करो बलिः' इत्यमरः। ततश्विः। 'ऊर्यादिविडाचश्च' इति गतिसंज्ञायां 'कुगतिप्रादयः' इति नित्यसमासः । अकरदाः करदाः संपद्यमानाः कृताः करदीकृता भूपालाः यस्य सः वशीकृतराजमण्डल: तपसः सुतो धर्मपुत्रः। 'तप. श्चान्द्रायणादौ स्थाद्धर्मे लोकान्तरेऽपि च' इति विश्वः । अस्मद्विना । अस्माभिविनापीत्यर्थः । 'पृथग्विनानाना-' इत्यादिना तृतीयाविकल्पात्पञ्चमी । इज्यायै यागाय । यजेर्भावेऽपि क्यप् । 'वचिस्वपि-' इत्यादिना संप्रसारणम् । 'नमःस्वस्ति-' इत्यादिना चतुर्थी । अलं समर्थो भूष्णुर्भवनशीलः । 'भूष्णुर्भविष्णुर्भविता' इत्यमरः । 'ग्लाजिस्थश्च रस्नुः' इति ग्स्नुप्रत्ययः । 'क्विति च' इत्यत्र गकारप्रश्लेषाद्गुणाभावः। तथा च जयादित्यः 'तत्रैव गकारोऽपि च तत्त्वभूतो निर्दिश्यते' इति । अतो जैत्रयात्रैव कार्या न यज्ञयानेति भावः ॥ ननु यज्ञान्ते जैत्रयात्रायामुभयानुसरणं स्यात्तत्राह
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ १० ॥ उत्तिष्ठमान इति ॥ उत्तिष्ठमानो वर्धमानः। उदोऽनूर्वकर्मणि' इत्यात्मनेपदम् । परः शत्रुः पथोऽनपेतं पथ्यं हितमारोग्यं चेच्छता । पुंसेति शेषः । नोपेक्ष्यो नौदासीन्येन द्रष्टव्यः । कुतः। हि यस्माद्वय॑न्तौ वर्धिष्यमाणौ । 'लुटः सद्वा' इति