________________
द्वितीयः सर्गः।
सदादेशे 'वृच्यः स्यसनोः' इति विभाषया परस्मैपदम् । 'न वृयश्चतुर्व्यः' इतीडभावः। आमयो व्याधिः। 'रोगव्याधिगदामयाः' इत्यमरः। स शत्रुश्च शिष्टैनीतिजैः समौ तुल्यवृत्ती आम्नातावाख्यातौ । 'अल्पीयसोऽप्यरेवृद्धिर्महानाय रोगवत् । अतस्तस्यानुपेक्ष्यत्वादुभयानुसृतिः कुतः' इति भावः । उपमालंकारः॥
नन्वेवं स्वार्थपरत्वदोषः स्यादिति चेन्न । लोकानुग्रहार्थत्वादस्याः प्रवृत्तेरित्याशयेनाह
न ये सात्वतीस्नुर्यन्मह्यमपराध्यति ।
यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥११॥ नेति ॥ सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । 'उत्सादिभ्योऽम्'। तस्याः सूनुश्चैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति दुह्यतीति यावत् । 'क्रुधगुह-' इत्यादिना चतुर्थी । तत इति शेषः। यत्तदोर्नित्यसंबन्धात् । न दूये न परितप्ये। दूडो देवादिकाकर्तरि लट् । उत्तमपुरुषैकवचनम् । किंतु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । 'लुपसदच. रजप-' इत्यादिना गर्दायां यङ्। 'जपजभदहदशभञ्जपशां च' इत्यभ्यासस्य नुमागमः। अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । 'दुःखास्प्रातिलोम्ये' इति डाच्प्रत्ययः। अतश्चैद्य एवाभियातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः ॥
स्वमतं निगमयन्परमतं शुश्रूषुः पृच्छति___ मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२॥ ममेति ॥ तावत् । भवन्मतश्रवणपर्यन्तमित्यर्थः । मम मतमिदम् । अङ्गेत्यामन्त्रणेऽव्ययम् । 'अथ संबोधनार्थकाः । स्युः प्याट् पाडङ्ग हे है भोः' इत्यमरः । वां युवयोः । 'युष्मदस्मदोः षष्ठीचतुर्थी-' इत्यादिना वामादेशः । मतं श्रूयताम् । विधौ लोट् । तदिदं मया श्रोतव्यम् । अन्यथा संदेहानिवृत्तेरिति भावः । विदुषस्ते कुतः संदेहस्तत्राह-ज्ञातसारः ज्ञाततत्त्वार्थोऽप्येकः एकाकी कार्यवस्तुनि कर्तव्यार्थे संदिग्धे संशेते । खलु निश्चये । अतो मयापि संदिह्यत इत्यर्थः । 'दिह उपचये' कर्तरि लट् । घत्वधत्वे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥
यावदर्थपदां वाचमेवमादाय माधवः।।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥१३॥ यावदिति ॥ माधवो हरिया॑वानों यावदर्थम् । 'यावदवधारणे' इत्यव्ययीभावः । यावदर्थ पदानि यस्यास्ताम् । अभिधेयसंमिताक्षरामित्यर्थः । एवमुक्तप्रकारेण वाचमादाय गृहीत्वा । उक्त्वेत्यर्थः । विरराम तूष्णीमास । 'व्यापरिभ्यो रमः' इति परस्मैपदम् । तथाहि-महीयांसः उत्तमाः प्रकृत्या स्वभावेन मितभाषिणः । भवन्तीति शेषः । वृथालापनिषेधादिति भावः । पूर्ववदलंकारः ॥ १ 'मदः' इति पाठः.