________________
३४
शिशुपालवधे
अथाष्टाभिः कुलकेन रामं वर्णयंस्तद्वाक्यमवतारयतिततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामोष्ठविम्बचुम्बनचुञ्चना ॥१४॥ तत इति ॥ ततो रामो जगादेत्युत्तरेणान्वयः। सपनो रिपुः । 'रिपौ वैरिसपत्नारि-' इत्यमरः। तस्यापनयोऽपकारः तस्य स्मरणेन योऽनुशयः पश्चात्तापः। 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । तेन स्फुरतीत्यनुशयस्फूः । तेन स्फुरा । ओष्ठो बिम्बमिवेत्युपमितसमासः । रामाया ओष्ठबिम्बस्य चुम्बनेन वित्तो रामोष्ठबिम्बचुम्बनचुचुः । तेन वित्तश्रु प्रचणपौ' इति चुञ्चप्प्रत्ययः । 'ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्'। तेनौष्ठेनोपलक्षितः । समरसुरतयोः समरस इति भावः । उपमानुप्रासयोः संसृष्टिः ॥
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृताम् ।
प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ १५ ॥ विवक्षितामिति ॥ विवक्षितां वृद्धत्वाभिमानादग्रे वक्तुमिष्टाम् । वचेबूंजो वा सन्नन्तात्कर्मणि क्तः । तत्क्षणे विवक्षाक्षणे एवेत्यविलम्बोक्तिः । प्रतिसंहृतां रामानुरोधानुरुद्धां अर्थविदः कार्यज्ञस्य अतएव पवनव्याधेरुद्धवस्य गिरमु. त्तरपक्षता सिद्धान्तपक्षतां प्रापयन् । स्वस्यासत्पक्षावलम्वित्वादिति भावः । अनेन रामस्य व्यग्रतोक्ता ॥
घूर्णयन्मदिरास्वादमदपाटलितद्युती ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥ घूर्णयन्निति ॥ पुनः। मदिरास्वादेन मद्यपानेन यो मदस्तेन पाटलिता ईषद्तीकृता द्युतिर्ययोस्ते रेवत्या देव्याः वदने यदुच्छिष्टं मद्यलेपताम्बूलादि । अक्षिचुम्बनसंक्रान्तमिति भावः । तेन परिपूते शुद्ध पुटे ययोस्ते दृशौ घूर्णयन् भ्रामयन्निति मद्यविकारोक्तिः । उच्छिष्टपरिपूतेत्यत्र ‘रतिकाले मुखं स्त्रीणां शुद्धमाखे. टके शुनाम् इति स्मरणात् । उच्छिष्टस्य पावित्र्यजनकत्वविरोधस्याभासत्वाद्विरोधाभासोऽलंकारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् ।। म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥१७॥ आश्लेषेति ॥ पुनः । आश्लेषे लोलुपाया आलिङ्गनलुब्धायाः वध्वाः स्तनयोः कार्कश्यस्य काठिन्यस्य साक्षिणीमुपद्ष्ट्रीम् । नित्यं पीड्यमानामिति भावः । 'साक्षादृष्टरि संज्ञायाम्' इति साक्षाच्छब्दादिनिप्रत्ययः । वनमालामभिमानोष्णरहंकारतप्तैर्मुखानिलैः निश्वासमारुतैापयन् ग्लापयन् । म्लायतेय॑न्तालटः शत्रादेशः। 'आदेच-' इत्यात्वे पुगागमः । अम्लाने म्लानसंबन्धादतिशयोक्तिः ॥
दधत्संध्यारुणव्योमस्फुरत्तारानुकारिणीः। द्विषद्वेषोपरक्ताङ्गसङ्गिनीः खेदविग्रुषः ॥ १८ ॥