________________
द्वितीयः सर्गः। दधदिति ॥ पुनः। संध्यायामरुणे व्योम्नि स्फुरन्तीस्तारा अनुकुर्वन्तीति तथोक्ताः। कुतः। द्विषतः शत्रोद्वेषेण क्रोधेनोपरक्तेऽङ्गे वपुषि सङ्गिनीः सताः खेदविग्रुषः स्वेदबिन्दून् । 'पृषन्तिबिन्दुपृषताः पुमांसो विग्रुषः स्त्रियाम्' इत्यमरः । दधद्दधानः । 'नाभ्यस्ताच्छतुः' इति नुमभावः । उपमालंकारः ॥
प्रोल्लसत्कुण्डलपोतपद्मरागदलत्विषा ।
कृष्णोत्तरासगरुचं विदधचौतपल्लवीम् ॥ १९ ॥ प्रोल्लसदिति ॥ पुनः । प्रकर्षेणोल्लसतां कुण्डलयोः प्रोतानां स्यूतानां पनरागदलानां माणिक्यशकलानां त्विषा कान्त्या । प्रोतेति प्रपूर्वाद्वेजः कर्मणि क्तः । यजादित्वात्संप्रसारणम् । कृष्णोत्तरासङ्गो नीलोत्तरीयम् । 'द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा । संव्यानमुत्तरीयं च' इत्यमरः । तस्य रुचं चूतपल्लवस्येमा चौतपल्लवीं विदधत् । कृष्णलोहितमिश्रवर्णचूतपल्लववभूम्रा कुर्वनित्यर्थः । 'धून. धूमलौ कृष्णलोहिते' इत्यमरवचनात् । अत्रान्यरुचोऽन्यदीयत्वायोगात्सादृश्याक्षेपानिदर्शनालंकारः॥
ककुझिकन्यावक्रान्तर्वासलब्धाधिवासया । मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥ ककुद्मीति ॥ पुनः । ककुद्मिकन्याया रेवत्या वक्रस्यान्तरम्यन्तरे वासेन स्थित्या लब्धोऽधिवासो वासना यया तया । तन्मुख सौरभवासितयेत्यर्थः । 'संस्कारो गन्धमाल्याचैरधिवासनमुच्यते' । मदिरया कृतानुव्याधं कृतसंसर्गम् । प्रियागण्डूषगन्धिनमित्यर्थः । 'व्यधजपोरनुपसर्ग-' इत्यनुपसृष्टादप्प्रत्ययविधाना. दुपसृष्टाब्यधैर्घञ्प्रत्ययः । मुखामोदं स्वमुखगन्धविशेषम्। 'आमोदः सोऽतिनिहारी' इत्यमरः । उद्वमगिरन् । अत्र मदिराराममुखगन्धयोः स्वगन्धतिरोधानेन रामामुखतगण्डुषमयगन्धस्वीकारात्तद्गुणयोस्तत्रोत्तरस्यात्मविशेषकत्वेन पूर्वसापेक्षवादङ्गाङ्गिभावेन संकरः। 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्षणात् ।
जगाद वदनच्छद्मपद्मपर्यन्तपातिनः।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥२१॥ जगादेति ॥ वदनमेव छद्म कपटं यस्य तत्पद्मम् । वदनमेव पद्ममित्यर्थः । छमशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवः । तस्य पर्यन्तपातिनः प्रान्तसंचारिणः । मधु लिहन्तीति मधुलिहस्तान्मधुपान् । किम् । उदग्रैरुच्छ्रितैः दशनांशुभिः श्वैत्यं धावल्यं नयनेवं जगाद । तद्गुणालंकारः । तस्य मधुपसंनिधापकवदनापहवसापेक्षत्वात्तेन संकरः॥
रामो जगादेत्युक्तम् । किं तदित्याकाङ्क्षायामाह
यद्वासुदेवेनादीनमनादीनवमीरितम् । वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥