________________
शिशुपालवधे
यदिति ॥ वासुदेवेन न दीनमित्यदीनमकातरं न आदीनवोऽस्येत्यनादीनवं निर्दोषम् । 'दोष आदीनवो मतः' इत्यमरः । यद्वच ईरितम् । 'उत्तिष्ठमानस्तु परः' इत्यादिपक्षमाश्रित्य यदुक्तमित्यर्थः । तस्य वचसः सपदि क्रिया केवलं सद्योऽनुष्ठानमेवोत्तरम् । सिद्धान्तस्यैवोक्तत्वादिति भावः ॥ अथ तदेव प्रतिपादयिष्यन्ननन्यातिशयतयोपस्करोति
नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौषधगप्यग्निस्त्विषा नात्येति पूषणम् ॥ २३ ॥ नैतदिति ॥ लघु संक्षिप्तमप्येतद्वचो भूयस्या बहुतरया। विस्तृतयापीत्यर्थः । 'द्विवचनविभज्य-' इत्यादिना ईयसुनि 'बहोर्लोपो भू च बहोः' इतीकारलोपो बहोश्च भूरादेशः। वाचा नातिशय्यते नातिरिच्यते। गुर्वर्थत्वादिति भावः । शीङः कर्मणि लटि यक् । 'अयङ् यि विति' इत्ययङादेशः । तथाहि-इन्धनौ. घान्दहतीतीन्धनौघधक् काष्ठराशिदाहकः । भूयानपीत्यर्थः । क्विपि घत्वधत्वभष्भावाः । अग्निस्त्विषा प्रभया पूषणं सूर्यम् । अल्पीयांसमपीति भावः । नात्येति नातिकामति । तेजसः प्रभावत्वमिव वचसोऽर्थवत्त्वमलच्यत्वहेतुरित्यर्थः । अत्र समानधर्मबिम्बितया दृष्टान्तालंकारः ॥ यदि हरिवचो नातिशय्यते, अलं तर्हि तवापि वागारम्भैरत आह
संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः।।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २४ ॥ संक्षिप्तस्येति ॥ अतो हरिवचसोऽनतिशयनीयत्वादेव सुविस्तरतराः प्रपञ्च. तराः। 'प्रथने वावशब्दे' इति घञः प्रतिषेधे 'ऋदोरप्' इत्यप् । मे वाचः संक्षिप्तस्याल्पाक्षरस्याप्यर्थेन गरीयसः । सूत्रकल्पस्येत्यर्थः । 'अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवा च सूत्रं सूत्रविदो विदुः॥' इति लक्षणात् । अस्यैव वाक्यस्य नान्यस्य भाष्यभूता भाष्यैः समाः। नित्यसमासः । 'क्ष्मादौ जन्तौ भूतं क्लीबं समेऽतीते चिरे त्रिषु' इति वैजयन्ती। व्याख्यानरूपा भव. निरवत्यर्थः । सूत्रव्याख्यानविशेषो भाष्यम् । 'सूत्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥' इति । मया तु तदेव विशेषप्रकाशनाय व्याख्यायते, नत्वतिशयाय प्रत्याख्यायत इत्यदोष इत्यर्थः । उपमालंकारः ॥ इत्थं यानं सिद्धान्तयित्वा तत्रोद्धवप्रतिरोधं हृदि निधाय त्रिभिः प्रत्याचष्टेविरोधिवचसो मूकान्वागीशानपि कुर्वते ।
जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥२५॥ १ 'इतः पूर्व विरोधिवचसो मूकान्-' इति श्लोको दृश्यते.