________________
२४
शिशुपालवधे.
या नार्यः । शुद्धान्तस्त्रिय इत्यर्थः । तासां परिधानान्यन्तरीयाणि । 'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः । तेषां धूननं चालनम् । धूलो ण्यन्ताल्लयुद। 'धूप्रीमोर्नुग्वक्तव्यः' इति नुक् । तेन स्फुटागसा व्यक्तापराधेनापि । अन्तःपुरद्रोहस्य महापराधत्वादिति भावः । ऊरुषु तासां सक्थिषु लोलचक्षुषः सतृष्णदृष्टेः । 'सक्थि क्लीवे पुमानूरुः' इति, 'लोलश्चलसतृष्णयोः' इति चामरः । अत एव तस्य रावणस्य प्रियेण प्रमोदास्पदभूतेनाङ्गीकृतः । म्लानिन दोषायेति न्यायादिति भावः । प्रकम्पनेन वायुना अनपराधेऽपराधाभावेऽपि बाधिताः । राजपुरुषैरिति शेषः । सुरा अनुचकम्पिरे। स्वयमुपायेनान्तःप्रविश्यानपराधबाधातिवेदनेन मोचयता वायुनानुकम्पिता इत्यर्थः । एकस्य वैदग्ध्यावहवो जीवन्तीति भावः॥ तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम् । चभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाळूमवितानमाधिः ॥ ६२ ॥
तिरस्कृत इति ॥ किंच तस्य रावणस्य जनाभिभाविना लोकतिरस्कारिणा महीयसामतिमहतां महसां तेजसां महिम्ना महत्त्वेन । 'पृथ्वादिभ्य इमनिज्वा' इतीमनिच् । मुहुस्तिरस्कृतः अतएव तनुः कृशः । तनुं न पातयति जाठररूपेण शरीरं धारयतीति तनूनपादग्निरिति स्वामी । 'नभ्राद-' इत्यादिसूत्रेण निपातना. नजो नलोपाभावः । आधिदुःखोत्थैर्बाष्पैः निःश्वासोष्मभिः । 'बाष्पो नेत्रजलोप्मणोः', 'पुंस्याधिर्मानसी व्यथा' इति विश्वामरौ । द्वौ गुणावावृत्ती यस्य स द्विगुणः । ततश्विः । द्विगुणीकृतं द्विरावृत्तम् । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती। धूमवितानं धूममण्डलं बभार । अग्निरपि तत्संनिधौ निस्तेजस्को धूमायमान आस्त इत्यर्थः । धूमद्वैगुण्यासंबन्धे संबन्धाभिधानादतिशयोक्तिः ॥ परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः । तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजंगता ॥६३॥
परस्येति ॥ किंच इद्धं दीप्तम् । उग्रमित्यर्थः । ‘इन्धी दीप्ती' कर्तरि क्तः । तं रावणमाराधयितुं सेवितुं परस्य स्वेतरस्य मर्माणि हृदयादिजीवस्थानानि, कुलाचारव्रतानि च विध्यति भिनत्तीति मर्मावित् । विध्यतेः विप् 'अहिज्या-' इति संप्रसारणम् । 'नहिवृत्ति-' इत्यादिना पूर्वस्य दीर्घः । तं मर्माविधं निजं स्वीयं द्विजिबतायां सर्पत्वे यो दोषो दृष्टिविषत्वादिस्तम् । अन्यत्र द्विजिह्वता पिशुनता । "द्विजिह्रौ सर्पसूचकौ' इत्यमरः । सैव दोषस्तमुज्झतां त्यजतां फणिनां संबन्धिभिरजिह्मगामिभिः करचरणादिमद्विग्रहधारित्वादृजुगतिभिः, अकपटचारिभिश्च । तथा कर्णाभ्यां सह वर्तन्त इति सकर्णकाः तैश्चक्षुःश्रवस्त्वं विहाय आविप्कृतकर्णैरित्यर्थः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । शेषाद्विभाषा' इति कप् । अन्यत्र कर्णयति सर्व शृणोतीति कर्णको नियन्ता । कर्णयतेण्वुल । ततः पूर्ववत्समासे सकर्णकैः । सनियामकैरित्यर्थः । फणिनां सपाणां कुलैर्वगैर्भुजंगता सर्पता, विटत्वं