________________
४३८
शिशुपालवधे दुर्दशेत्यर्थः । असावसुरचमूश्चैद्यसेना क्षणेन च भूभृतां हरिसैनिकानां भृशं भयं करोतीति भयंकरापि । 'मेघर्तिभयेषु कृञः' इति खच्प्रत्ययः । दर्शनीयतां मनोहरतामिति विरोधः । दृष्टिविषयतां ययावित्यविरोधः । अत एव विरोधा. भासोऽलंकारः ॥ पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः । समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे॥४६॥
पयोमुचामिति ॥ अथासुरसेनादर्शनानन्तरं समविपमेषु निम्नोन्नतेषु समक्रमस्तुल्यसंचारः बलजलराशिः सैन्यसागरः दिवि व्योम्नि द्रुतमभिपततामभिधावतां पयोमुचां संबन्धी आतपस्य विपर्ययः छायेव परितः क्षणात्क्षमातलं भूतलमानशे । 'अशू व्याप्तौ' 'अत आदेः' इत्यभ्यासदीर्घः । 'अश्नोतेश्च' इति नुमागमः । उपमालंकारः ॥ ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् । विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ४७
ममाविति ॥ पुरोऽग्रे क्षणमिव पश्यतः क्षणमात्रं विलोकयतः । इवशब्दो वाक्यालंकारे । तनौ क्षोदीयस्युदरे कुक्षौ स्थितं भुवनत्रयं यस्य तस्य मधुमथनस्य हरेः संबन्धिनि विशालतां वैपुल्यं दधति दधाने नितान्तमायते दीर्घ द्वाघीयसि चक्षुषि महत् द्विषां बलं ममौ ववृते । क्षणमीक्षणादेव परबले इयत्तां परिचिच्छेदेत्यर्थः । क्षोदीयस्यपि कुक्षौ भुवनत्रयं परिच्छिदन्तो हरेरतिमहति चक्षुषि अल्पबलपरिच्छेदः कियानिति भावः । अत्र भुवनत्रयापेक्षया आधारस्य कुक्षेरल्पत्वाच्चक्षुरपेक्षया आधेयस्य बलस्याल्पत्वाच्चाधिकालंकारौ संकीर्यते ॥ भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः । मुखे युधः सपदि रतेरिवाभवन्ससंभ्रमाः क्षितिपचमूवधूगणाः ४८
भृशेति ॥ क्षितिपचम्बो वध्व इवेत्युपमितसमासः । रतेरिवेति लिङ्गात् । तासां गणाः युधो मुखे युद्धारम्भे रतेर्मुखे रत्यारम्भ इव सपदि भृशं स्विद्यन्तीति भृशस्विदः । क्विप् । पुलकविकासिमूर्तयो रोमाञ्चोदञ्चितगात्राः रसः वीरः शृङ्गारश्च तेनाधिके निर्भरे मनसि निविष्टसाहसाः प्रविष्टधााः ससंभ्रमाः ससत्वराश्चाभवन् । यादृशी वधूनां सुरतरसकर्मण्युत्कण्ठा तादृशी चमूनां समरकर्मणी-युपमार्थः । तेनैतासां समरसुरतयोः समरसत्वं व्यज्यते ॥ ध्वजांशुकैर्धवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः । यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ ४९ ॥
ध्वजांशुकैरिति ॥ अरयः चैद्यपक्षाः अनुकूलमारुतेन प्रसारितैर्ध्वजांशुकधुवं प्रसभेन बलात्कारेण कृतोपहूतयः । कृताद्वाना इवेत्यर्थः । यदूनभि यादवान्प्रति द्रुततरमुद्यतायुधा उत्क्षिप्तायुधाः सन्तः क्रुधा क्रोधेन परमधिकं रयं त्वरां प्रपे