________________
सप्तदशः सर्गः।
४३७
पिताग्रदिशि धूमितत्वोत्प्रेक्षेति संकरः । अत्राहुः-'अङ्गारिणी दिग्रविविप्रयुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता । प्रधूमिता यास्यति यां दिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः ॥' इति ॥ मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः। यथा पुरःसमरसमुद्यतद्विपदलानकध्वनिरुदकर्षयन्मनः ॥ ४२ ॥
मनस्विनामिति ॥ उदिता उत्पन्ना गुरुर्गभीरा प्रतिश्रुतिः प्रतिध्वनिर्यस्य सः निजमृदङ्गनिःस्वनः स्वसेनातूर्यघोषः श्रुतः सन् तथा मनस्विनां मनो नोदकर्षयन्नाचकर्ष । कृषिरयं स्वार्थण्यन्तः । यथा पुरोऽने समरसमुद्यते समरोद्युक्ते द्विपद्धले शत्रुसैन्ये ये आनकास्तेषां ध्वनिरुदकर्षयत् । एतेनैषां वीरस्थायी महोत्साह उक्तः । अत्र भयंकरस्यापि परसैन्यघोषस्योत्साहजनकत्वं महावीरेषु न विरुध्यत इति विरोधाभासोऽलंकारः । भीहेतौ सत्यपि भयानुत्पत्तेर्विशेषोक्तिविरुद्धकार्योत्पत्तेर्विषमभेदश्चेति संकरः ॥ यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतःसरः। तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥४३॥
यथा यथेति॥हरिर्वरोजामातेव हरिवरः। 'वरो जामातृवर्ययोः' इति विश्वः । तस्याग्रतः सरतीत्यग्रतःसरोऽग्रेसरः । 'पुरोऽग्रतोऽग्रेषु सर्तेः' इति टप्रत्ययः । स पूर्वोक्तः पटहरवो यथा यथा यावद्यावत्समीपतामासन्नतामुपागमत् तथा तथा तावत्तावद्विषतां चमूर्जनीव वधूरिव । 'जनी सीमन्तिनी वधूः' इति विश्वः । चेतसा मुदाकुला आनन्दाविला हृषितवपू रोमाञ्चिताङ्गी । 'हृषेर्लोमसु' इतीडागमः । अजनि जाता। जनेः कर्तरि लुङ् 'दीपजन-' इत्यादिना चिण् प्रत्ययः । वधूवरसमागमवत्प्रतिद्वन्द्विसमागमो महोत्साहवर्धनो वीरसेनाया इत्युपमार्थः । तेन सैन्ययोरन्योन्यशब्दश्रवणकारिणी प्रत्यासत्तिरासीदिति व्यज्यते ॥ प्रसारिणी सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता । व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ४४
प्रसारिणीति ॥ ततः श्रवणानन्तरं सपद्यविलम्बेन नभस्तले प्रसारिणी व्याप्ता समीरणेन वायुना भ्रमितेन परागेण रूषिता रूक्षीकृता अत एव प्रलयजायाः कल्पान्तप्रादुर्भूतायाः कालिकाया महाकाल्या आकृतिरिवाकृतिर्यस्याः सा प्रतिबले प्रतिपक्षसैन्ये केतनावलिर्ध्वजपतिर्विदूरतो दूरादलक्ष्यत । एतावता प्रत्यासत्तिरासीदित्यर्थः । उपमालंकारः॥ क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना । भयंकरा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥४५॥
क्षणेनेति ॥ प्रतिमुखस्याभिमुखस्य तिग्मरश्मेरुष्णांशोः प्रतिप्रभाभिः प्रतिफलितदीप्तिभिः स्फुरद्भिर्देदीप्यमानैरसिभिः खङ्गैर्दुःखं दुष्करं दर्शनं यस्याः सा ।