________________
४३६
शिशुपालवधे
चलेत्यादि ॥ स्फुटं कृतः कर्णतालः कर्णताडनं यया तया द्विपघटया का चलाङ्गुल्य एव किसलया यस्मिन्कर्मणि तत्तथोद्धतैः करैर्हस्तैरनृत्यत अनति । भावे लङ् । तथा मदोदकेन द्रवास्वार्दासु कटभित्तिषु गण्डस्थलेषु सङ्गिभिरासक्तैः मधुपगणैर्भमरगणैः कलस्वरं मधुरस्वरमगीयत गीतम् । भावे लङ् ॥ असिच्यत प्रशमितपांसुभिर्मही मदाम्बुभिधृतनवपूर्णकुम्भया । अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥३८॥
सिच्यतेति ॥ धृतौ नवौ पूर्णकुम्भौ शिरःपिण्डकलशौ यया तया द्विपघटया का । 'कुम्भौ घटेभमू(शौ' इत्यमरः । प्रशमितपांसुभिर्मदाम्बुभिर्मही असिच्यत सिक्ता । आननैर्मुखैः करणैः श्रवणयोः सुखयतीति सुखं सुखकरम् । 'सुखहेतौ सुखे सुखम्' इति शब्दार्णवे । समुन्नमत्पयोधरध्वनिगुरु उद्यन्मेघगर्जितगम्भीरं तूर्यमवाद्यत वादितम् । स्वमुखबृंहणैरेव तूर्य संपादितमित्यर्थः ॥ उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः। यतः पुरः प्रतिरिपु शाङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलं ३९
॥ विशेषकम् ॥ उदासिर इति ॥ पवनेन विधूतवाससः कम्पितपटाः गगनलिहोऽभ्रंकषाः केतवो ध्वजाश्च ततस्तत उदासिरे उत्क्षिप्ता इतीत्थं द्विपघटया प्रतिरिपु रिपू
प्रति । आभिमुख्येऽव्ययीभावः । यतो गच्छतः । इणो लटः शत्रादेशः । शाङ्गिणः पुरोऽग्रे स्वयं मङ्गलं व्यधीयत विहितम् । अत्र श्लोकत्रये प्रस्तुतद्विपघटविशेषणसाम्यादप्रस्तुतमङ्गलाचरणपरपुरन्ध्रीप्रतीतेः समासोक्तिरलंकारः ॥ न शून्यतामगमदसौ निवेशभूः प्रभृततां दधति बले चलत्यपि । पयस्यभिद्रवति भुवं युगावधौ सरित्यतिन हि समुपेति रिक्ततां ४०
नेति ॥ प्रभूततां भूमानं दधति दधाने बले सैन्ये चलति प्रतिष्ठमानेऽपि असौ निवेशभूः सेनानिवेशभूमिः शून्यतां रिक्ततां नागमत् । तथाहि युगा. वधौ युगान्ते पयसि भुवमभिद्रवत्यभिप्लवमाने सति सरित्पतिः समुद्रो रिक्ततां न समुपैति हि । दृष्टान्तालंकारः ॥ यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् । पुरः पतत्परबलरेणुमालिनीमलक्षयदिशमभिधूमितामिव ।। ४१॥
यियासितामिति ॥ अथ मधुभिद्धरिरेव विवस्वान् तेन यियासितां यातु. मिष्टां जिगमिषिताम् । यातेः सन्नन्तात्कर्मणि क्तः । पततोऽभिधावतः परबलस्य शत्रुसैन्यस्य रेणूमलते धारयतीति तन्मालिनी । मलतेणिनिप्रत्ययः । अत एव जरतो वृद्धस्य महिषस्य विषाणवद्धसरां धूम्रो पुरोऽये दिशमभितो धूमोऽस्याः संजातस्तामभिधूमितामिव जनो लोकोऽलक्षयत् । मधुभिद्विवस्वतेति रूपकोत्था