________________
सप्तदशः सर्गः। यानि कौशलानि तैरनर्थकैरजनि जातम्।प्रेयसां बाधिर्यादिति भावः । अत्र श्रोत्रजा. ड्यस्य विशेषणगत्या क्वणितानर्थक्य हेतुत्वाकाव्यलिङ्गम् । तदुपजीवितेन वणितानामानर्थक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरित्यनयोरङ्गाङ्गिभावेन संकरः ॥ अरातिभियुधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः । अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनं ॥३४
अरातिभिरिति ॥ सह युध्यन्त इति तान्सहयुध्वनः । 'सहे च' इति क्वनिप् । अत एवारातिभिर्युधि हतान् जिघृक्षवो ग्रहीतुमिच्छवः स्वयंवरणकामाः । ग्रहेः सन्नन्तादुप्रत्ययः। सुरगणिका अप्सरसः श्रुतरणतूर्यनिःस्वनाः सत्यश्विरोज्झितम् । प्रायेण प्रवीरसंवादाभावादिति भावः । प्रथमसमागमोचितम् । अतिमोहनमित्यर्थः । प्राथम्यं च पुंसामिदं प्रथमत्वादिति भावः । प्रसाधनमकुर्वत । परिष्कृतवत्य इत्यर्थः। 'प्रतिकर्म प्रसाधनम्' इत्यमरः । अत्र स्वयंवरणतूर्यश्रवणयोर्विशेषणगत्या प्रसाधनहेतुत्वाकाव्यलिङ्गम् ॥ प्रचोदिताः परिचितयन्तृकर्मभिनिषादिभिर्विदितयताङ्कशक्रियः । गजाः सकृत्करतललोलनालिका हता मुहुःप्रणदितघण्टमाययुः ३५
प्रचोदिता इति ॥ परिचितं यन्तृकर्म सादिकृत्यं यैस्तैः । स्वभ्यस्तगजशास्त्रैरित्यर्थः । अत एव विदिते यताङ्कुशक्रिये यतयाताख्ये पादाङ्कुशकर्मणी यैस्तैः । 'पादकर्म यतं प्रोक्तं यातमङ्कुशवारणम्' इति हलायुधः । निषादिभिर्यन्तृभिः प्रचोदिताः प्रेरिता गजाः सकृदेकवारमेव करतललोलाभिः पाणितलचलिताभिर्नालिकाभिरन्तर्नाडिकाभिहतास्ताडितास्तथापि मुहुः प्रणदिता असकृद्धनन्ती घण्टा यस्मिन्कर्मणि तत्तथा आययुः प्रस्थातुमागताः । स्वभावोक्तिः ॥ सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः। व्यरंसिपुर्न खलु जनस्य दृष्टयस्तुरंगमादभिनवभाण्डभारिणः॥३६
सविक्रमेति ॥ सविक्रमेण साङ्गिविन्यासविशेषेण क्रमणेन गमनेन चलैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । क्षिते रजः स्वखुरोद्धतमितस्ततः क्षिपतो निरस्यत इव स्थितादित्युत्प्रेक्षा । अभिनवभाण्डभारिणः प्रत्यग्राभरणधारिणः । 'स्याद्भाण्डमश्वाभरणे' इत्यमरः। तुरंगमात्तुरंगमेभ्यः । जातावेकवचनम् । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इत्यपादानत्वम् । जनस्य दृष्टयो न व्यरंसिपुर्न विरताः खलु । रमेछुङि 'व्यापरिभ्यो रमः' इति परस्मैपदं 'यमरमनमातां सक्च' इति सगिडागमौ । इटि 'नेटि' इति वृद्धिप्रतिषेधः ॥
अथ विशेषकेणाहचलाङ्गुलीकिसलयमुद्वतैः करैरनृत्यत स्फुटकृतकर्णतालया । मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥३७॥