________________
४३४
शिशुपालवधे प्रतस्थे । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । 'लट् से' इति भूते लट् । तद्धितगता श्रौती पूर्णोपमा ॥ निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्धलमवलोकयञ्जनः । विकौतुकः प्रकृतमहाप्लवेऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ३०
निरन्तरेति ॥ ततो रथास्थानानन्तरं निरन्तरं नीरन्ध्र स्थगितान्याच्छा. दितानि दिगन्तराणि येन तत् । समुच्चलत्प्रतिष्ठमानं तद्धलं सैन्यमवलोकयन् जनो लोकः प्रकृतः प्रक्रान्तो महाप्लवो महापूरो जगत्संप्लवरूपो येन तस्मिन विशृङ्खलमप्रतिघातं प्रचलितं क्षुभितं यसिन्धोरब्धेर्वारि तस्मिन्विकौतुको निवृ. त्तकौतूहलोऽभवत् । कल्पान्तक्षुभितवारिधेर्वारिवञ्च तद्बलं सकलजगत्संहारश
यालक्ष्यतेत्यर्थः । अत्रान्यदर्शनादन्यदिदृक्षानिवृत्तेर्बलवारिधिवारिणोरेकत्वा. क्षेपे बाधात्सादृश्याक्षेपाद्वाक्यभेदेन प्रतिबिम्बकरणान्निदर्शनालंकारः ॥ वहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेपिरे । असंभवद्भिरिवरगह्वरैरभूत्तदा रवैर्दलित इव व आश्रयः॥३१॥
बहिर इति ॥ गजपतयो बब्रूहिरे बव॒हुः । बृंहणं चक्रुरित्यर्थः । 'बृहि वृद्धौ शब्दे च' आत्मनेपदं चिन्त्यम् । अत एव भट्टमल्लः-'हेषते हेपतेऽश्वानां हस्तिनां बुंहतीति च' इति । महानकाः प्रदध्वनुः । जयशीलास्तुरगा जयतुरगा जिहेषिरे । हेषां चक्रुरित्यर्थः । 'हेपृ हे अव्यक्ते शब्दे'। तदा तस्मिन्काले असं. भवन्त्यन्तर्धातुमपर्याप्नुवन्ति गिरिवरगह्वराणि येषां तैः गिरिवरगह्वरेषु अमाद्भिः । अवर्तमानैरित्यर्थः । रवैबृंहणादिघोषैः । स्व आश्रयः स्वसमवायिकारणमाकाशो दलित इव विदारित इवाभूदित्युत्प्रेक्षा तया तेषामतितीव्रत्वं व्यज्यते ॥ अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः। विनिष्पतन्मृगपतिभिगुहामुखैर्गताः परां मुदमहसन्निवाद्रयः॥३२॥
अनारतमिति ॥ मधुद्विषो हरेः दुन्दुभौ रणभेयाँ जयायानारतमश्रान्तं रसति ध्वनति सति फलन्तः संक्रामन्तोऽलघवो महान्तः प्रतिस्वनाः प्रतिध्वनयो येषु तैः । विनिष्पतन्तः क्षोभान्निर्गच्छन्तः मृगपतयः सिंहा येभ्यस्तैर्गुहाभिरेव मुखैरद्रयः परां मुदं गताः सन्तः अहलन्निव । सिंहानां धावल्यावनियोगाच हसनोत्प्रेक्षा ॥ जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकंदराः। अनर्थकैरजनि विदग्धकामिनीरतान्तरक्कणितविलासकौशलैः।।३३॥
जडीकृतेति ॥ दिवमोको येषां तेषां दिवौकसां देवानाम् । कंदरान्तर्गतानामित्यर्थः । जडीकृतश्रवणपथे बधिरीकृतश्रोत्रमार्गे । सापेक्षत्वेऽपि गमकत्वात्समासः । चमूरवे सेनाघोषे सुराद्विकंदराः मेरुगह्वराणि विशति सति । विदग्धकामिनीनां प्रौढाङ्गनानां रतान्तरे सुरतमध्ये वणितविलासाः कृजितसंपदस्तासु