________________
सप्तदशः सर्गः।
४३३ धिकंधरमधिकण्ठम् । विभक्त्यर्थेऽव्ययीभावः । ललम्बिरे । लग्ना इत्यर्थः । श्लेषः श्लिष्टोपमा वा मतभेदात् ॥
मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः । सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥२६॥
मनोहरैरिति ॥ अथ प्रकृतिमनोरमाकृतिः स्वभाव सुन्दरमूर्तिः समितिषु युद्धेषु भीमं दर्शनं यस्य स भीमदर्शनो मुरजिद्धरिर्मनोहरैः प्रकृतिमनोहरैः समितिषु भयप्रदः सदैवतैः अधिदेवतायुक्तः सततमनपायिभिरायुधैः शार्ङ्गद्विभिर्निजाङ्गवत्पृथगवस्थितैः शरीरैरिवेत्युत्प्रेक्षा । असेव्यत सेवितः ॥ अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि । मुहुर्युधि क्षतसुरशत्रुशोणितप्लुत प्रधिं रथमधिरोहति स्म सः ॥२७॥
अवारितमिति ॥ अथायुधसंनिधानानन्तरं स हरिरुभयेषु द्वयेषु । द्विविधेष्वित्यर्थः । क्षमाभृतां राज्ञां, गिरीणां च कटकान्तरेष्वपि शिबिराभ्यन्तरेषु, नितम्बावकाशेषु च भूरिशो बहुशः अवारितमप्रतिहतं गतं प्रस्थितं मुहुरसकृधि क्षतानां सुरशत्रूणामसुराणां शोणितैः ताः सिक्ताः प्रधयो नेमयो यस्य तम् । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । रथमधिरोहति स्म आरुरोह ॥
उपेत्य च खनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः । प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ २८ ॥
उपेत्येति ॥ किंचेति चार्थः । पतत्पतिरण्डजमण्डलेश्वरः । 'पतत्पत्ररथाण्डजाः' इत्यमरः । त्विषा कान्त्या कपिशितानि कपिलीकृतानि दूराणि दिड्युखानि येन सः । स्वनेन गुरुर्महान्पक्षमारुतो यस्मिन्कर्मणि तत्तथा दिवः स्वर्गादुपेत्यागत्य तत्क्षणं तस्मिन्क्षणे प्रकम्पिता स्थिरतरा निश्चला यष्टिरावास. स्तम्भो यस्मिंस्तत्तथा । अधिकेतनं केतने । विभक्त्यर्थेऽव्ययीभावः । पदं दधौ निहितवान् ॥
गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया । प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥ २९ ॥
गभीरतेति ॥ अथ गरुडागमनानन्तरं स रथो नवघनवत् नवघनेन नवाम्बुदेन तुल्यम् | 'तेन तुल्यम् -' इति वतिप्रत्ययः । गभीरतया गाम्भीर्येण विजितो मृदङ्गनादो यथा तथा हतो रिपुहंसानां हंसानामिव रिपूणां हर्षो यया तमा स्वनश्रिया ध्वनिसंपदा मुखरान्कूजतः कलापिनो मयूरान्प्रमोदयन्प्रतिष्ठते स्म
१ ' गभीरया' इति पाठः० शिशु० ३७