________________
४३२
शिशुपालवधे
दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति । महीभुजां महिमभृतां न संममुर्मुदोऽन्तरा वपुषि वहिश्च कञ्चकाः २२
दुरुद्वहा इति ॥ महिमभृतामैश्वर्यवतां महीभुजां राज्ञां संबन्धिनी रणश्रवाद्युद्धश्रवणादाशु शीघ्रमुपचयं वृद्धिं बिभ्रति बिभ्राणे वपुषि अपरैरन्यैः क्षणं क्षणमपि दुरुद्वहा दुर्भराः मुदः संतोषाः अन्तरा अन्तराले न संममुः। बहिः कञ्चकाश्च न संममुः न मान्ति स्म । नावर्तन्तेत्यर्थः । पूर्वत्र आधेयाधिक्यादुत्तरत्राधाराधिक्यादिति विवेकः । अत्र मुदा कञ्जुकानां च प्रकृतानामेव विशेषणसाम्यादौपम्यगम्यतायां केवलकृतास्पदा तुल्ययोगिता ॥ सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्व वाजिनः । त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनःपुनस्तदधिकृतानतत्वरन् २३
सकल्पनमिति ॥ द्विरदगणं सह कल्पनया सकल्पनं यथोचितसंनाहस. हितम् । 'कल्पना सजना समे' इत्यमरः । वरूथो रथगुप्तिरेषामस्तीति वरूथिनो रथान् । 'रथगुप्तिर्वरूथो ना' इत्यमरः। तुरङ्गिणोऽश्वयुक्तान् वाजिनोऽश्वा. अयनयुजः पल्ययनादिसंयुक्तान् । संपदादिभ्यः क्विप् । 'जयनः स्यात्तुरङ्गादिसंनाहे विजयेऽपि च' इति विश्वः । स्वयं त्वरायुजः त्वरायुक्तान्स्वतः कुर्वतोऽपि । स्वत एव त्वरया कुर्वाणानपीत्यर्थः । तदधिकृतान्हस्त्यादिषु नियुक्तपुरुषानपाः पुनः पुनरतत्वरन्त्वरयन्ति स्म । तेषां तथा रणौत्सुक्यादिति भावः । त्वरेणौ चडि 'अत्स्मृद्दृत्वरप्रथम्रदस्तृस्पशाम्' इत्यभ्यासस्याकारः ॥ युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया । अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् २४
युध इति ॥ अथ परैः सह युधे युद्धाय दृढबद्धा कक्षा मध्यबन्धनं यस्यास्तया । 'कक्षा बृहतिकायां स्यात्काञ्चयां मध्येभबन्धने' इति विश्वः । अन्यत्र दृढोद्योगयेत्यर्थः । कलं क्वणता मधुपकुलेनालिगणेनोपगीतया बन्दिमागधस्तुतया चेति गम्यते । द्विपघटया का स्वयं सवारिभिः सोदकैः करोदरैः पुष्करात्रैः पाणितलायैश्चाक्षयमपरिमितं दानं मदः अदीयत, दानं द्रव्यं चादीयत दत्तम् । जन प्रस्तुतगजघटाविशेषणसाम्येनाप्रस्तुतदानकर्तृप्रतीतेः समासोक्तिरलंकारः ॥ सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः । रणैषिणां पुलकभृतोऽधिकंधरं ललम्बिरे सदसिलताः प्रिया इव २५
सुमेखला इति ॥ शोभना मेखला बन्धनसूत्राणि काग्यश्च यासां ताः सुमेखलाः । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । सिततरैर्दन्तैर्दन्तमयत्सरुभिर्दशनैश्च चारवः उल्लसन्त्यः तनवः सूक्ष्माः परिधानसंपदः कोशसंपदो वस्त्रसंपदश्च यासां ताः पुलकभृतः छायाभृतः रोमाञ्चधारिण्यश्च सदसिलताः चारुखगवल्यः प्रिया इव रणैषिणां रणाकाटिणां कंधरास्त्र