________________
सप्तदशः सर्गः।
४३१ समाकुले सदसि तथापि विक्रियां मनोगमन्न मुरभिदः परोदितैः। घनाम्बुभिवहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः १८ __ समाकुल इति ॥ परोदितैः शत्रुवाक्यैः सदसि आस्थाने तथा समाकुले क्षुभितेऽपि मुरभिदो हरेर्मनो विक्रियां क्षोभं नागमत् । तथा हि बहुलितानि बहुलीकृतानि क्षोभितानि निम्नगाजलानि यैस्तैर्घनाम्बुभिमघोदकैरम्बुधे लं विकारं न व्रजति । यथा वर्षोदकैर्नद्यः क्षुभ्यन्ति न समुद्रस्तद्वदिति भावः । दृष्टान्तालंकारः ॥ परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति । निनाय नो विकृतिमविस्मितः सितं मुखं शरच्छशधरमुग्धमुद्धवः॥
परानिति ॥ अमी खलाः परानन्यानपवदन्ते निन्दन्ति । 'अपाद्वदः' इत्यात्मनेपदम् । आत्मनः स्वान् स्तुवन्ति चेति यत् असावसतां खलानां स्थितिः प्रकृतिरिति । इति मत्येत्यर्थः । गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुक्त्यमित्यालंकारिकाः । विस्मितो न भवतीत्यविस्मितो दूतप्रलापैविस्मयं न गतः उद्धवः । स्मितं स्मेरम् । उभयत्र कर्तरि कः। अत एव शरच्छशधरमुग्धं शरदिन्दुसुन्दरमित्युपमा । मुखं विकृतिं न निनाय न प्रापयामास । न हि महतां निन्दा स्तुतिर्वा विकारकारणमिति भावः ॥ निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् । . मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनाताजये॥२०॥
निराकृत इति ॥ तत्र सदसि इतीत्थं प्रकोपिभिरतिक्रुद्धैर्यदुभिः विद्विषां स्पशे चरे। 'अपसर्पश्चरः स्पशः' इत्यमरः । निराकृते धिकृते शनैर्गतवति गच्छति सति । सागसोऽपि दूतस्यावध्यत्वादिति भावः । अथ दूतगमनानन्तरं स्वनितेन ध्वनिना भयानका भयंकरा आनकाः पटहा यसिंस्तन्मुरद्विषो बलं क्षणादाजये युद्धाय समनह्यत संनद्धम् ॥ मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः। अदंशयन्नरहितशौर्यवंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥२१॥
मुहुरिति ॥ वृष्णिभूभृतो यादवनरेन्द्राः मुहुरसकृधुधि प्रतिस्खलितपरायुधाः भग्नप्रतिपक्षायुधाः स्थवीयसीः स्थूलतराः । पराक्रमानुरूपप्रकर्षवतीरित्यर्थः । स्थूल दूर-' इत्यादिना पूर्वस्य गुणलोपौ । अचल नितम्बनिर्भरा अद्रिकटकनिबिडाः । अन्तःसारवतीरित्यर्थः । अरहितमव्यक्तं शौर्य मेव दंशनं वर्म यासां तास्तनूदेहान् अयं नय इति वर्मधारणं नीतिरिति हेतोः न तु भयादिति भावः । अदंशयन्नवर्मयन् । दशेरनुदात्तत्वात्परस्मैपदं चिन्त्यमित्याहुः । अत एव भट्टमल्लः- 'संवर्मयति संनह्यत्यात्मने सजतीत्यमी । संदंशते दंशयते संनाहे पदपञ्चकम् ॥' इति । केचित्तु चुरादिपूभयपदिषु पटन्ति । अत्र साभि. प्रायविशेषणत्वात्परिकरालंकारः ॥