________________
४३९
सप्तदशः सर्गः। दिरे । धांशुकदर्शनोत्थक्रोधहेतुकस्य शीघ्राभिपातस्य ध्वजाह्वानहेतुकत्वमुप्रेक्ष्यते ध्रुवमिति ॥ हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः। विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः
हरेरिति ॥ हरेरपि चमूपु चरन्तीति चमूचराः सैनिकाः। चरेष्टः । परेषामिमाः परकीया वाहिनीः सेनाः प्रति अधिस्यदमधिकरयं यथा तथा । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः । प्रववृतिरे प्रवृत्ताः । तथाहि मनस्विनो धीराः कलहं युद्धं विधित्सतः विधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शतरि रूपम् । तान्विद्विषः शत्रूनवेश्य विलम्बितुम् । 'शकष-' इत्यादिना तुमुन्प्रत्ययः । सहन्त इति सहाः क्षमाः । पचाद्यच् । न खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः । निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥५१॥
उपाहितैरिति ॥ रणाजिरे रणाङ्गणे नरपतयो राजानो वपुषि उपाहितैरामुक्तैः स्फुरन्तो मणिप्रसृता रत्ननिर्गता मरीचय एव सूचयो येषां तैः निवातवमभिरच्छिद्रकञ्चकैः । 'निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च' इति विश्वः । 'तनुत्रं वर्म कञ्जुकम्' इत्यमरः । निरन्तरं नीरन्धं शरनिकरैराचिताः प्रोता इव, रराजिरे । 'फणां च सप्तानाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । मणिरो. चिषः सादृश्याच्छरनिकरत्वोत्प्रेक्षा ॥ अथोचकैर्जरठकपोतकंधरातनूरुहप्रकरविपाण्डुरद्युति ।। बलैश्चरचरणविधूतमुच्चरद्वनावलीरुदचरत क्षमारजः॥५२॥ __ अथेति ॥ अथानन्तरं उच्चकैरुन्नतं जरठकपोतकंधरातनूरुहप्रकरविपाण्डुरद्युति जीर्णपारावतकंधरारोमनिकरधूसरच्छायमित्युपमा । 'पारावत: कलरवः कपोतः' इत्यमरः । बलैः सैन्यैश्चलनिश्चरणैर्विधूतमुद्भूतं प्रेरितं सदुचरदुत्पतत्क्षमारजो भूरेणुर्घनावलीर्घनपतीरुदचरत् । प्रचक्रामेत्यर्थः । 'उदश्वरः सकर्मकात्' इत्यात्मनेपदम् । अस्य प्रत्युदाहरणमुच्चरदिति । अत्र भूरेणोर्मेघमण्डलाक्रमणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा ॥ विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरंगमैरुपरि निरुद्धनिर्गमाः। चलाचलैरनुपदमाहताः खुरैर्विवभ्रमुश्चिरमध एव धूलयः॥५३॥
विषङ्गिभिरिति ॥ चलाचलैश्चटुलैः खुरैरनुपदं प्रतिपदमाहता उद्धताः भृशमितरेतरं परस्परम् । 'निरन्तरम्' इति पाठेऽभितो निरन्तरं नीरन्ध्र विषङ्गिमिर्मिथः श्लिष्टैस्तुरङ्गमैरुपरि निरुद्वो निर्गमो यासां ताः धूलयः क्वचित् चिरमध