________________
षष्ठः सर्गः।
रसभावतदाभासतत्प्रकाशसमानानां निबन्धे रसवत्प्रेय उर्जविसमाहितानीति लक्षणात् । वृत्तमुपजातिः।
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन । परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥७५ ।। स्तनयोरिति ॥ रसमानाः कूजनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानशू' इति ताच्छील्ये चानश्प्रत्ययः। रसतेः परस्मैपदित्वान्न शानच्प्रत्ययः। ते सारसाः पक्षिविशेषाः यस्मिंस्तेन रसमानसारसेन समयेन । शरत्कालेनेत्यर्थः । सारसानां तत्रैव संभवात् । 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः' इति यादवः । अङ्गनानां स्तनयोर्या जलानां ततिः शारदोष्मजन्मा स्वेदोदबिन्दुसंदोहः अभितो नद्धाभिनद्धा । नातेरभिपूर्वात्कर्मणि क्तः । 'नहो धः' इति धत्वम् । हारसमा मुक्ताहारतुल्या । कुचमण्डलमण्डनायमानेति भावः । सा जलानां तती रसेन रागेण हेतुना । बलीयसेति भावः। परिरम्भरुचिमालिङ्गनेच्छां नाभिनत् न विभेद । शारदस्वेदस्याप्यलंकारतया उद्दीपकस्याजुगुप्सितत्वान्निःसपत्नशझारा विजयन्त इत्यर्थः । अत एव रसनिबन्धनाद्सवदलंकारः । लक्षणमुक्तं पूर्व. श्लोके । औपच्छन्दसिकं वृत्तम् ॥
जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकाकुंरुतेन । तत्संपर्क प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ॥ ७६ ॥ जातेति ॥ या स्त्री अनुवनान्तम् । विभक्त्यर्थेऽव्ययीभावः । मधुरेण श्राव्येण सारसिकाकाकुरुतेन सारस्य एव सारसिकाः सारसाङ्गनाः । कात्पूर्वस्येत्वम् । तासां काकुरुतेन विकृतशब्देन । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्वनेः' इत्यमरः । काकुश्च तद्रुतं च तेन । कामे कामकल्पे । 'सिंहो देवदत्त' इतिवद्गौणप्रयोगः । कान्ते प्रिये जातप्रीतिर्जातस्नेहाभूत् । रसिका रसवती । रागवतीत्यर्थः । 'अत इनिठनौ' इतीठन्प्रत्ययः। सा का स्त्री एकान्ते रहसि तस्य कान्तस्य संपर्क प्राप्य पुरा पुरुषप्रेरणात्पूर्वमेव कां मोहनलीलां सुरतक्रीडां न कुरुते । सर्वापि स्त्री सर्वानपि सुरतविशेषान्कामतन्त्रप्रसिद्धान्विस्त्रब्धं चकारेत्यर्थः । तेन शृङ्गारस्य पराकाष्ठा प्राप्तेत्युक्तम् । मत्तमयूरं वृत्तम् ॥ अथैकेन हेमन्तमाह
कान्ताजनेन रहसि प्रसभं गृहीत
केशे रते सरसहासवतोषितेन । प्रेम्णा मनःसु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोषितेन ॥ ७७॥