________________
१६२
शिशुपालवधे 'नीहकृष्वहाम्' इति नयतेर्द्विकर्मकता । शेपं पूर्ववत् । तोटकं वृत्तम् । 'वद तोटकमब्धिसकारयुतम्' इति लक्षणात् ॥ अथ द्वाभ्यां वर्षतु वर्णयतिमुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रमतालिनी शिलीन्धे सह सायन्तनदीपपाटलाभे ७२ मुदमित्यादि ॥ अब्दभुवां मेघप्रभवानामपां लाभे। मेघे वर्पति सतीत्यर्थः । सहसा मयूरा मुदमानन्दमायन्तालभन्त । 'अय गतौ' लङि 'आडजादीनाम्' इत्याडागमे वृद्धिः। नदी पपाट । नद्यः प्रावहन्नित्यर्थः । 'अट पट गतौ' लिट् । जातावेकवचनम् । अलिना भृङ्गेण सह सायंतनः सायंभवः । 'सायंचिरम्-' इत्यादिना ट्युप्रत्ययः तुडागमश्च । स चासौ दीपश्च तद्वत्पाटलाभे पाटलप्रभे इत्युपमालंकारः । तस्मिन्शिलीन्धे कन्दलीकुसुमे अलिन्यरमत । अत्र मयूरमोदप्राया. द्यनेककर्तृकक्रियायोगपद्याद्भिन्नाधिकरणक्रियासमुच्चयरूपः समुच्चयालंकारभेदः । 'गुणक्रियायोगपद्यं समुच्चयः' इति सामान्यलक्षणम् । औपच्छन्दसिकं वृत्तम् ॥ कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि। गगनं च गीतनिनदस्य गिरोच्चैः समया वनौषनमदभ्रमराणि ७३
कुटजानीति ॥ शिखरीन्द्रं समया रैवतकाद्रेः समीपे । 'अभितःपरितःसमया-' इत्यादिना द्वितीया । अवनौ प्रदेशे घनमदा भ्रमरा येषु तानि धनमभ्रमराणि कुटजानि कुटजकुसुमानि वनौघेन पयःपूरेण नमन्त्यभ्राणि मेघा यस्मिंस्तद्वनौघनमदभ्रम् । 'पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । गगनं च वीक्ष्य शिखिभिर्मयूरैर्गीतनिनदस्य गानध्वनेः समया तुल्यया । 'तुल्याथैः-' इत्यादिना वैकल्पिकी षष्ठी । गिरा वाचा । केकयेत्यर्थः । उच्चैरराणि रणितम् । 'रण शब्दे' भावे लुङ् । चिणो लुक् । कुटजा वृत्तम् । 'सजसा भवेदिह सगौ कुटजाख्यम्' इति लक्षणात् ॥ अथ त्रिभिः शरदं वर्णयतिअभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे । योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥ ७४ ॥
अभीष्टमित्यादि ॥ कामयत इति कमनी कामयित्री । 'कम्रः कामयिताभीकः कमनः कामनोऽभिकः' इत्यमरः। कमेः कर्तरि ल्युटि ङीप् । योषित् । जातावेकवचनम् । अनीचा उन्नताः काशा अश्ववाला यस्मिन्ननीचकाशे काले । शरदीत्यर्थः । मनोजन्मसुखोदयेषु कामसुखाविर्भावेषु धृता आशा अभिलाषो येन तमभीष्टं प्रियं चिराय चिरकालेन । 'चिराय चिररात्राय' इत्यमरः । सम्यगुद्धृता उत्सृष्टा आशङ्का संकोचो यस्मिन्कर्मणि तत्समुद्धताशकं विस्रब्धं यथा तथा आसाद्य प्राप्य मुदा सह वर्तत इति समुत्सानन्दा सती चकाशे। विललासेत्यर्थः । अत्र समुच्चकाश इति योषितः प्रियप्राप्तिनिमित्तहर्षाख्यभावनिबन्धनात्प्रेयोऽलंकारः ।