________________
षष्ठः सर्गः।
१६१ रेषु वसन्तड़िनेषु सारं श्रेष्ठं मधुवासरसारम् । तत्काललाध्यमित्यर्थः । चूतं सहकारमतिरागादतिलौल्यादुज्झितुं हातुं नाक्षमिष्ट । क्षमौवादिकालुङ् । स्वागता वृत्तम् । ‘स्वागतेति रनभाद्गुरुयुग्मम्' इति लक्षणात् ॥
जगदशीकर्तुमिमाः सरस्य प्रभावनीके तनवै जयन्तीः । इत्यस्य तेने कदलीमधुश्रीः प्रभावनी केतनवैजयन्तीः ॥६९।।
जगदिति ॥ प्रभावयतीति प्रभावनी संपादयित्री । कर्तरि ल्युटि डीप् । मधुश्रीः कर्ती जगदशीकर्तुं प्रभौ समर्थे अस्य स्मरस्यानीके सैन्ये जयन्तीर्जित्वरीः केतनवैजयन्तीर्घजपताकास्तनवै करवाणि । तनोतेः प्राप्तकाले लोट् । टेरेत्वमित्येकारः 'एत ऐ' 'आडुत्तमस्य पिच्च' इति आटि 'आटश्च' इति वृद्धिः । इति मनीषयेति शेषः । इमाः कदली रम्भातरूंस्तेने वितस्तार । 'कदली वारणबुसा रम्भा मोचांशुमत्फला' इत्यमरः । कदलीषु कामवैजयन्तीत्वोत्प्रेक्षा । वृत्तमुपजातिः ॥
स्मररागमयी वपुस्तमिस्रा परितस्तार रखेरसत्यवश्यम् । प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवें रसत्यवश्यम् ७० स्मरेति ॥ असती दुष्टा स्मरेण कामेन निमित्तेन यो रागो रमणेच्छा स एव तन्मयी तमिस्रा तमस्तोमः । 'तमिस्रा तिमिरे रोगे तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च' इति विश्वः। रवेर्वपुर्मण्डलं परितस्तार आवत्रे । अहनि रजनीधियं जनयामासेत्यर्थः । परिपूर्वात्स्तृणातेलिट् । अवश्यम् । सत्यमित्यर्थः । कुतः। परितः समन्तात्ताररव उच्चतरध्वनौ कोकिले रसति कूजति सति इत्युद्दीपकोक्तिः । स्त्री इत्यर्थः । जातावेकवचनम् । दिवेति सप्तम्यर्थेऽव्ययम् । वशं गतो वश्यः । 'वशं गतः' इति यत्प्रत्ययः । न वश्यस्तमवश्यम् । अवशं गतमपीत्यर्थः । प्रियमाप । स्वयमभिससारेत्यर्थः । यदवगणयन्तमपि प्रियं दिवापि मानमवगणय्य निषेधं चोल्लङ्घय समगच्छंस्तत्सत्यम् । रागतिमिरतिरोहितमानभानुमण्डला मानिन्य इति रूपकानुप्राणिता प्रियाप्तिक्रियानिमित्ता परिस्तरणक्रियास्वरूपोप्रेक्षा अवश्यमिति व्यञ्जकाप्रयोगाद्वाच्या । औपच्छन्दसिकं वृत्तम् । 'विषमे ससजा गुरू समे चेतू स्मर तच्छन्दसिकं तदीपपूर्वम्' इति लक्षणात् ॥ अथैकेन ग्रीप्ममाहवपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरा गमिता । रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥७१॥ वपुरिति ॥ शुचिना ग्रीष्मेण प्रयोजकका अम्बुविहारेण जलक्रीडया हिमं शीतलमत एव रुचिरमुज्वलं वपुर्देहं गमिता प्रापिता। 'गतिबुद्धि-' इत्यादिना अणिकर्तुः कर्मत्वम् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इत्यभिहितत्वं च । अत एव कमनीयतरा रमणीयतरा अचिरांशुलतेवाचिरांशुलता विद्युल्लता तस्या रुचिर्यस्याः सा अचिरांशुलतारचिः इत्युपमाद्वयम् । रागमनुरागमिता प्राप्ता । इणः कर्तरि क्तः । रमणी रमणेन प्रियेणाङ्कमुत्सङ्गमनीयत नीता ।