________________
शिशुपालवधे.
शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः। इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान्प्रियाः ६५ शिशिरेति ॥ शिशिरमासमपास्यापहाय शीतं हरतीति शीतहरस्य । 'हरतेरनुद्यमनेऽच्' इत्यच्प्रत्ययः । नोऽस्माकमस्य कुचोष्णस्य क इव गुणः । किं फलं संपाद्यत इति शेषः । गम्यमानक्रियापेक्षया क्त्वानिर्देशः(?)। इवशब्दो वाक्या. लंकारे । इति धिया। अतोऽस्मिन् शिशिरमासे । सार्वविभक्तिकस्तसिः । प्रियाः कान्ता अस्तरुषो निरस्तरोषाः सत्यो नमतः प्रणताननुमतान्स्वप्रियान्घनं निबिडं परिरेभिर आश्लिष्टवत्यः । इति धियेति सुखार्थस्य परिरम्भस्य कुचोष्मसाफल्यार्थत्वमुत्प्रेक्ष्यते व्यञ्जकाप्रयोगाद्गम्यत्वं च ॥
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ६६ अधीति ॥ लवङ्गेष्वधिलवङ्गम् । विभक्त्यर्थेऽव्ययीभावः । सुमनसां पुष्पाणां दलेषु तालयन्ति प्रतितिष्ठन्तीति सुमनोदलतालिनः । ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । अमी अलिनो मधुपाः रजसा परागेणार्तवेन चाधिकं मलिना मलीमसाः पापिनश्च कृता मलिनिता इति हेतोः पुरोऽग्रे सपदि कुन्दलता माध्यवल्ली। 'माध्यं कुन्दम्' इत्यमरः । दलता विकसता प्रसवेन निजकुसुमेनाहसजहास । स्फुटमित्युत्प्रेक्षायाम् । रजस्वलां गन्तारं कामिनं सपल्यो हसन्तीति भावः । कुन्दकुसुमस्य धावल्याद्धासत्वेनोत्प्रेक्षा ॥ इति शिशिरवर्णनम् ॥
अथ यमकविशेषकौतुकितया कविः पुनादशभिर्ऋतून्वर्णयन्नाद्यैश्चतुर्भिर्वसन्तं वर्णयति
अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव संतानकः । तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥६७॥
अतिसुरभिरिति ॥ अतिसुरभिरत्यन्तसुगन्धिः संतानकः कल्पवृक्षः पुष्पश्रियां पुष्पसंपदामतनुतरतया महत्तरत्वेन । अतनुशब्दात्तरबन्तात्तलप्रत्ययः । अभाजीवाभञ्जीवेत्युत्प्रेक्षा। तथा नम्र इत्यर्थः । 'भजेश्च चिणि' इति विभाषा नलोपे उपधावृद्धिः । चिणो लुक् । किंच वसन्तस्यानको वसन्तानकः । दुन्दुभिरिति रूपकम् । तरुणपरभृतस्तरुणकोकिलो रागिणां कामिनां रतये रागवर्धनाय स्वनमतनुत । मधुरं चुकूजेत्यर्थः । प्रभावृत्तम् । 'स्वरशरविरतिर्ननो रौ प्रभा' इति लक्षणात् ॥
नोज्झितुं युवतिमाननिरासे दक्षमिष्टमधुवासरसारम् । चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६८॥ नोज्झितुमिति ॥ अरमत्यन्तमिष्टेप्वीप्सितेषु मधुषु मकरन्देषु वासे वसतो रसो रागो यस्याः सा इष्टमधुवासरसा। मधुपानप्रियेत्यर्थः । अत एवालिनामा. लिभृङ्गश्रेणियुवतिमाननिरासे दक्षं कुशलम् । उद्दीपकत्वादिति भावः । मधुवास