________________
षष्ठः सर्गः : ।
१५९
स्म | हेमन्तस्योद्दीपकत्वादिति पीडाक्षमत्वात् दीर्घरात्रित्वाच्चो भयेच्छासदृशमरमन्तेत्यर्थः ॥ इति हेमन्तवर्णनम् ॥ अथ शिशिरं वर्णयति
1
कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुंकृतिः । उपवनं निरभर्त्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ६२ कुसुमयन्नित्यादिना || उपवनम् । वन इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' इति विकल्पादम्भावः । फलिनीः प्रियङ्गुलताः । 'प्रियङ्गुः फलिनी फली' इत्यमरः । कुसुमयन्कुसुमवतीः कुर्वन् इत्युद्दीपनसामग्रीवर्णनम् । कुसुमयतेर्मत्वन्तप्रकृतिकात् ' तत्करोति-' इति ण्यन्तालटः शत्रादेशः । णाविष्टवद्भावे विन्मतोर्लुक् । मदविकासिभिर्मदेन विजृम्भमाणैरलिनीरवैः भृङ्गीहुंकारैराहितहुं कृतिः कृत हुंकारः । माधुर्याद्युद्दीपकत्वातिशयद्योतनार्थमलिनीति स्त्रीलिङ्गनिर्देशः । शिशिरानिलः प्रियान्वियुवतीः कोपाद्वियुञ्जानाः । यौतेः शतरि धातोरुवङादेशः 'उगितश्च' इति ङीप् । युवतीर्वधूः । 'यूनस्तिः' इति तिप्रत्ययः । निरभर्त्सयतातर्जयत । तर्जिभत्स्यश्चौरादिकयोरनुदात्तेत्त्वादात्मनेपदम् । अत्र वाय अचेतने चेतनधर्मो निर्भर्त्सनमुत्प्रेक्ष्यते । सा चालिनी हुंकार झङ्काराज्जीवितेति रूपसंकीर्ण व्यञ्जकाप्रयोगाद्गम्या च ॥
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि । तपसि मन्दगभस्तिरभीषुमान्न हि महाहिमहानिकरोऽभवत् ६३ उपचितेष्विति ॥ कालवशाद्बलवानपि परेषु शत्रुषूपचितेषु प्रवृद्धेषु सत्सु असमर्थतां दौर्बल्यं व्रजति । हि यस्मात्तपसि माघमासे । 'तपा माघे' इत्यमरः । मन्दगभस्तिर्मृदुरश्मिरभीषुमानंशुमान् । 'अभीषुः प्रग्रहे रश्मौ' इत्यमरः । महत उपचितस्य हिमस्य हानिं नाशं करोतीति महाहिमहानिकर स्तद्धेतुर्नाभवत् । 'कृञो हेतु -' इत्यादिना हेत्वर्थे टप्रत्ययः । विशेषेण सामान्यसमर्थनरूपोऽर्था
न्तरन्यासः ॥
अभिषिषेणयितुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुदभूद्दिशः ॥ ६४ ॥
अभीति ॥ क्षुभित उद्धृतो यः सैन्यपरागः सेनारजः स इव विपाण्डुरद्युतिः शुभ्रवर्णो यो लोधरजश्चयः भुवनान्यभिषिषेणयितुं सेनयाभियातुमिच्छन्तम् । 'यत्सेनयाभिगमनमरौ तदभिषेणनम्' इत्यमरः । ' सत्यापपाश - ' इत्यादिना सेनाशब्दाणिचि सनि 'सनाशंसभिक्ष उ:' इत्युप्रत्ययः । 'स्थादिष्वभ्यासेन -' इति धात्वभ्याससकारयोः पत्वम् । स्मरमाख्यतेव ख्यातवानित्युत्प्रेक्षा । चक्षिङः ख्याञ् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरङादेशः । अयं लोध्ररजश्चयो दिशस्रियन् तिरस्कुर्वन् । तिरःशब्दात् ' तत्करोति -' इति ण्यन्तालटः शत्रादेशः । णाविष्टवद्भावे टिलोपः । उदभूत् ॥