________________
१५८
शिशुपालवधे भृशमयत याधरपल्लवक्षतिरनावरणा हिममारुतैः । दशनरश्मिपटेन च सीत्कृतैर्निवसितेव सितेन सुनिर्ववौ ॥५८॥
भृशमिति ॥ अनावरणा आवरणरहिता या अधरपल्लवस्य क्षतिव्रणो हिममारुतै शमदूयतातप्यत । दूङो देवादिकात्कर्तरि लङ् । सा क्षतिः । यत्तदोनित्यसंबन्धात् । सीत्कृतैः सीत्कारैः कर्तृभिः सितेन शुभ्रेण दशनरश्मय एव पटस्तेन करणेन निवसितेवाच्छादितेवेत्युत्प्रेक्षा । वसेराच्छादनार्थात्कर्मणि क्तस्येडागमः । सुनिर्ववौ सुष्ठ निर्ववार । शीतालुराच्छाद्यत इति भावः । हिमहताधरनिर्वाणस्य सीत्कारकारणकस्य दशनरश्मिपटाच्छादने हेतुत्वोत्प्रेक्षणाद्रूपकोत्प्रे. क्षयोः संकरः ॥ उक्तमेवार्थ भङ्गयन्तरेणाहव्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे । स्फुटमिवावरणं हिममारुतैमृदुतया दुतयाधरलेखया ॥ ५९॥ व्रणेति ॥ मृदुतया मार्दवेन हेतुना हिममारुतैर्दुतया पीडितया । 'टुदु उपतापे' इति धातोः भौवादिकात्कर्मणि क्तः । व्रणभृता दन्तव्रणवत्या सुतनोः स्त्रिया अधरो लेखेव तया अधरलेखया का सुतनोः कामिन्याः कलेन सीत्कृतेन हेतुना स्फुरिताः प्रकाशिता ये दन्तमरीचयस्तन्मयं तद्रूपं स्फुटमावरणमाच्छा. दनं दध इव पृतमिवेत्युत्प्रेक्षा । दधातेः कर्मणि लिद ॥
धृततुषारकणय नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः । पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥६०॥
धृतेति ॥ धृतास्तुषारकणास्तुहिनशीकरा येन तस्य नभस्वतः पवनस्य संबन्धिनः तरुलता एवाङ्गुलयस्ताद्भिर्यानि तर्जनानि तान्येव विभ्रमा विलासाः पृथु विशालमिष्टस्य दयितस्य भुजान्तरं भुजमध्यं वक्षःस्थलं निरन्तरमनितया अप्रातया । गाढालिङ्गनमलभमानयेत्यर्थः । इणः कर्तरि क्तः । वनितया स्त्रिया न विषेहिरे न सोढाः । विरहिण्यस्तर्जिता इव नभस्त्रतो बिभ्यतीति भावः ॥
हिमऋतावपि ताः स भृशस्विदो युवतयः सुतरामुपकारिणि । प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः॥६१॥ हिमेति ॥ स्मरमयं सरादागतम् । सरप्रयुक्तमित्यर्थः । 'तत आगतः' इति मयद । अकृत्रिममनुरागं सहजं प्रेम प्रकटयति प्रकटीकुर्वाणे । तत्कार्येण स्वेदेनेति भावः । अत एव सुतरामुपकारिणि पुंसां रिरंसाजननात्तेभ्यः स्वानुरागप्रकाशनाच्चात्यन्तोपकर्तरीत्यर्थः । एवंभूते हिमऋतौ हेमन्तेऽपि । स्वेदसंभावनारहितकालेऽपीत्यर्थः । साहितः 'ऋत्यकः' इति प्रकृतिभावः । भृशं स्विद्यन्ति रागो. प्मणा भृशस्विद इति सात्त्विकोक्तिः । विप् । हेमन्तोऽपि रागिणां स्वेदहेतुरेव । तद्धेतुरागहेतुत्वादिति भावः । तास्तथा धीरा युवतयो विलासिनः प्रियान्रमयन्ति