________________
षष्ठः सर्गः ।
१५७
षताः '
कोण् प्रत्ययः तकारलोपश्च । पृषतां बिन्दूनां पतिर्वायुः | 'पृषन्ति बिन्दुटइत्यमरः । अध्वानं गच्छन्तीत्यध्वगाः पथिकाः । ' अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ' । तद्योषितां प्रोषितभर्तृकाणां दृशामतनुतापकृतं महासंतापकारिणीं सलिलसंततिमतनुत । उष्णमश्रूत्पादयामासेत्यर्थः । हेमन्तमारुतो विरहि - णीदुःसहोऽजनीति भावः ॥
सर्वदापि वियोगिनामुद्दीपकवायोर्हेमन्ते वैशिष्ट्यमाचष्टे - इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा । स्मृतसयौवन सोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः ५६
इदमिति || अनिलो वायुरन्यदान्यस्मिन्काले । ग्रीष्मादावित्यर्थः । 'सर्वैकान्य-' इत्यादिना दाप्रत्ययः । वियोगिनो वियुक्तान् । 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वम् । वरतनोः । वरतनुमित्यर्थः । ' अधीगर्थ -' इत्यादिना कर्मणि शेषे षष्ठी । स्मरयतीति स्मरतेराध्याने मित्वाद्भस्वत्वम् । इदं स्मारकत्वमपि महदत्यन्तमयुक्तमेव । सहकारिविरहादिति भावः । अहो अत्यन्ताकिंचित्करत्वाद्विस्मयः । हेमन्ते तु हन्तृत्वमप्यस्य संभवतीत्याह - सतुहिनस्तुहिनसहितस्तु सयौवना यौवनयुक्ताः अत एव सोप्माणो ये पयोधराः कुचास्ते स्मृता यैस्तान्स्मृतसयौवन सोष्मपयोधरान्वियोगिनो वियुक्तान् । ' तथायुक्तं चानीप्सितम्' इति कर्म - त्वम् । हिनस्तु हन्तु । संभावनायां लोट् । हेमन्ते हि हिमसहकारात्कुचोष्मैकसाध्यदुःखोत्पादनसामर्थ्याद्वियोगिमारकत्वमपि संभाव्यते । ग्रीष्मादौ तु तादृक्सहकारिविरहात्स्मारकत्वमप्ययुक्तमित्यर्थः । अमारके मारकसंबन्धोक्तेरतिशयोक्तिभेदः । इह सहजकविप्रौढोक्तिसिद्धयोरभेदाध्यवसाय इति रहस्यम् ॥
1
1
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् । श्लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा कृतवेपथुः ॥५७॥ प्रियतमेति ॥ अत्राद्यपर्याये न सह सा इति त्रेधा विभागः । अन्यन्त्र सहसेत्येकं पदम् । सरुषा सरोषया यया स्त्रिया कर्त्या प्रियतमेन सह न स्थितम् । नपुंसके भावे क्तः । सा अङ्गना स्त्री सहसा मार्गशीर्षमासेन । 'मार्गशीर्षे सहा मार्गः' इत्यमरः । कृतवेपथुर्जनितकम्पा सती । 'द्वितोऽथुच्' इत्यथुच्प्रत्ययः । तं पूर्वमगणितमेव प्रियं हसेन सह वर्तत इति सहसा सहास्या सती । 'अथो हसः । हासो हास्यं च' इत्यमरः । 'स्वनहसोर्वा' इति विकल्पादप्प्रत्ययः । सहसा शीघ्रम् । स्वरादिपाठादव्ययत्वम् । परिरभ्याश्लिष्य क्षणम् । क्षणमपीत्यर्थः । अन्यथा वैरस्यात् । अत एव सामर्थ्यलभ्यार्थत्वादपेरप्रयोगः । श्रथयितुं नाक्षमत । शिथिलीकर्तुं नोत्सहते स्मेत्यर्थः । मानिनीमानभञ्जनक्षमोऽयं मास इति भावः । कलहान्तरितेयं नायिका । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥
शिशु० १४