________________
शिशुपालवधे
इत्यर्थः । अत एवेन्द्रगजाजिनमैरावतचर्म तदेव कञ्चकः कूर्पासको यास ता इव स्थिता इत्युत्प्रेक्षा । दिशो ददृशुः । उक्तालंकारयोः संसृष्टिः ॥
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसंभवाम् । विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुदक्षिपत्।।५२॥ विलुलितामिति ॥ शरदेवाङ्गना इति रूपकम् । अनिलैर्विलुलितां विक्षोभितां नवसरोरुहकेशरसंभवां धूलिं परागं परिहासविधिन्सया नर्मरीतिचिकीपया। दधातेः सन्नन्तास्त्रियामप्रत्यये टाप् । हरिवधूः विकरितुं विक्षेप्तुमिव । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति तुमुन्प्रत्ययः । उदाक्षिपत्प्रेरितवती । रूपकोजीवितेयमुत्प्रेक्षा । किरतिरयं कीर्यमाणकर्मा । यथा रजः किरति मारुतः । क्वचित्तत्कारकोद्देश्यकर्मा यथात्रैवेति विवेकः ॥
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा । मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ५३ हरितेति ॥ अभिताम्रमुख्यरुणमुखी । 'स्वाङ्गाञ्चोपसर्जनात्-' इत्यादिना विकल्यान्डीए । शुकावलिमरुद्गणैः सुमनोगणैर्दिवि तता हरिप्रियाधमाकाशे वितता हरितानां हरिद्वर्णानां पत्राणां विकारो हरितपत्रमयी। "दिवाणञ्-' इत्यादिना ङीप् । तयावनवा प्रथिता मनोरमाः पल्लवा यस्यां सा सगिवेत्युप्रेक्षा । मधुरिपोः कृष्णस्य मुदं विततान ॥ स्मितसरोरुहनेत्रसरोजलामतिसिताङ्गविहंगहसद्दिवम् ।
अकलयन्मुदितामिव सर्वतः स शरदं शरदन्तुरदिझुखाम् ५४ स्मितेति ॥ स हरिः स्मितानि विकसितानि सरोरुहाण्येव नेत्राणि येषु तानि सरोजलानि यस्यां तां तथोक्तामतिसिताङ्गा धवलपक्षा ये विहङ्गा हंसास्तैर्हसन्ती सयमानेव स्थिता द्यौर्यस्यां तां तथोक्तां शरैस्तृणविशेपैर्दन्तुराण्युन्नतदन्तानि । हासा.प्रकाशदशनानीति यावत् । 'दन्त उन्नत उरच्' इत्युरच्प्रत्ययो मत्वर्थीयः। तानि दिङ्मुखानि यस्यां तां शरदन्तुरदिङ्मुखां शरदं सर्वतो मुदितामिवाकलयत् । सर्वत्र नेत्रविकासादिलिङ्गैर्हृष्टामिवामन्यतेत्यर्थः । अत्र सरोजहंसशरेपु नेत्रहासहन्तत्वारोपणाद्रूपकालंकारः । तद्वशात्प्रतीयमानाङ्गनाभेदाध्यवसायाच्छरदि मुदितत्वोत्प्रेक्षेति संकरः ॥ इति शरद्वर्णनम् ॥ अथ हेमन्तं वर्णयतिगजपतिद्वयसीरपि हैमनस्तुहिनयत्सरितः पृपतां पतिः । सलिलसंततिमध्वगयोषितामतनुतातनुतापकृतं दृशाम् ॥५५॥ गजपतीति ॥ गजपतिः प्रमाणमासां गजपतिद्वयसीमहागजप्रमाणाः । 'प्रमाणे द्वयसज्दन्नम्मावचः' इति प्रमाणार्थे यसच् प्रत्ययः । 'टिड्डाणञ्-' इत्यादिना ङीप् । ता अपि सरितस्तुहिनयन्हिमीकुर्वन् । 'तत्करोति-' इति ण्यन्ताल्टः शनादेशः । हेमन्ते भवो हैमनः । सर्वत्राच तलोपश्च' इति हेमन्तशब्दाच्छैपि