________________
षष्ठः सर्गः।
१५५
भूता कमलदर्शनोत्था मुखस्मृतिय॑ज्यत इति वस्तुनालंकारध्वनिः । एतेन स्त्रीमुखसादृश्यात्कमलं स्वाधाराम्भसि पुंस उत्सुकतामलम्भयदिति रङ्गराजव्याख्यानं 'काकस्य कार्पोद्धवलः प्रासादः' इतिवदसंगतं मन्तव्यमिति । अलम्भयदिति लभेय॑न्ताल्लङ् 'लभेश्च' इति नुमागमः । लभेश्चात्र प्राप्त्युपसर्जनकगत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना अणिकर्तुः कर्मत्वे द्विकर्मकता । गत्युपसर्जनकप्राप्त्यर्थत्वे तु वैपरीत्यमित्युक्तं 'सितं सितिम्ना' इत्यत्र ॥ विगतसस्सजिघत्समघट्टयत्कलमगोपवधून मृगव्रजम् ।
श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः॥४९॥ विगतेति ॥ इषे आश्वयुजमासे । 'स्थादाश्विन इषोऽप्याश्वयुजः' इत्यमरः । कलमगोपी शालिगोप्त्री सा चासौ वधूश्च कलमगोपवधूः । 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः । श्रुत आकर्णितस्तया वध्वा ईरितस्यालापितस्य कोमल. गीतकस्य मधुरगानस्य ध्वनियेन तं श्रुततदीरितकोमलगीतकध्वनिम् । अत एवाअतोऽग्रे न निमिपति विस्मयानन्दाभ्यामित्यनिमिषम् । इगुपधलक्षणः कप्रत्ययः । तदीक्षणं यस्य तमनिमिषेक्षणम् । घस्तुमत्तं वेच्छा जिघत्सा । घसेरदादेशाद्वा सन्नन्तात् 'अप्रत्ययात्' इति स्त्रियामप्रत्ययः। विगता सस्यस्य जिघत्सा यस्य तं विगतसस्यजिघत्सम् । उपसर्जनान्द्रस्वः । मृगव्रजं नाघट्टयन्नाताडयत् । सिद्धे साधनाप्रयोगादिति भावः । अत्र दण्डसाध्ये मृगनिवारणे काकतालीयन्यायेन सुखार्थस्य गानस्य कारणत्वकथनात्समाधिरलंकारः। 'कारणान्तरयोगात्कार्यसुकरत्वं समाधिः' इति सूत्रात् ॥
कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् । वरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ५० कृतेति ॥ अयुजो विषमाश्छदा येषां ते अयुक्छदाः सप्तपर्णास्तेषां गुच्छैः स्तबकैः सुगन्धयः शोभनगन्धाः । गजमदगन्धिन इति भावः। अलिभिभृङ्गैस्तता विस्तृता गानगिरो येषां ते। अलिभिर्गीयमाना इत्यर्थः । सततं गच्छन्तीति सततगाः सदागतयः। वायव इति यावत् । कृतमदं जनितमदं अत एवाकुलीकृतजगत्रयम् । ऊर्जः कार्तिकः । 'बाहुलोजौं कार्तिकिकः' इत्यमरः । स एव मतङ्गज इति रूपकम् । तं निगदन्त इव अयमागच्छतीत्यावेदयन्त इव ववुर्वान्ति स्म । मत्तमातङ्गगमनेऽप्येवंविधवायुवहनसंभवादियमुत्प्रेक्षा । रूपकं त्वङ्गमस्याः ॥
विगतवारिधरावरणाः क्वचिद्ददृशुरुल्लसितासिलतासिताः। क्वचिदिवेन्द्रगजाजिनकञ्चकाः शरदि नीरदिनीर्यदवो दिश:५१ विगतेति ॥ शरदि यदवो यादवाः । यदुशब्देन रघुशब्दवत्तदपत्ये लक्षणा । जनपदशब्दानामेव 'तद्वाजस्य बहुपु-' इति लुक्संभवादिति । क्वचिद्विगतवारिधरावरणा निवृत्तमेवावरणाः अत एवोल्लसिता कोशादुद्धृता । असिलतेवासिलता तद्वदसिताः श्यामा इत्युपमा । क्वचिन्नीरदिनी ववतीः । शुभ्राभ्रपटलच्छन्ना