________________
शिशुपालवधे
तनुरुहाणीति ॥ पुरोऽग्रे धवलपक्षविहंगमा हंसपक्षिणः । 'हंसास्तु श्वेतगरुतः' इत्यमरः । तेषां कूजितैर्विजितध्वनेः शिखण्डिनो मयूरस्य तनौ रुहाणि रूढानि तनुरुहाणि बर्हाणि । इगुपधलक्षणः कप्रत्ययः । अक्षमया हंसकूजिते
१५४
येव जगलुर्गलन्ति स्म । कालप्रयुक्तस्य बगलनस्याक्षमा हेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतुप्रेक्षा । युक्तं चैतदित्याह - अरिभवः परिभवः सुदुःसहोऽत्यसह्यो हि । पराजयदुःखितस्याङ्गसादो युज्यत इति भावः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । स चाक्षमोत्प्रेक्षया संकीर्यते ॥
1
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि । विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ४६ ॥ अनुवनमिति || अनुवनं प्रतिवनं वहलो रागो यस्याः सा चासौ जवा च । 'औण्डुपुष्पं जवा' इत्यमरः । पुष्पेषु जातीप्रभृतित्वात्स्वलिङ्गता । सैत्राधरस्तेन चारुणि रम्ये वनराजिरेव वधूस्तस्या मुखं प्राग्भागस्तदेव मुखं वक्रमिति श्लिष्टरूपकम् । तस्मिन्रुचिराणामीक्षणानां विभ्रमः शोभा यासां ताः विकचबाणदलावलयो नीलझिण्टीपत्रपङ्कयः । 'बाणोऽस्त्री नीलझिण्ट्यां च' इति वैजयन्ती । अधिकं रुरुचिरे शुशुभिरे । उपमारूपकयोः संकरः ॥
कनकभङ्गपिशङ्गलैर्दधे सरजसारुणकेशरचारुभिः । प्रियविमानितमानवतीरुपां निरसनैरसनैरवृथार्थता ॥ ४७ ॥
कनकेति ॥ कनकभङ्गाः स्वर्णखण्डा इव पिशङ्गानि दलानि येषां तैः सह रजसा सरजसम् । 'अचतुर -' इत्यादिना साकल्यार्थेऽव्ययीभावे समासान्तो निपातः । बहुव्रीह्यर्थे लक्षणया तु सरजस्क इत्यर्थः । अत एव न सरजसमित्यनव्ययीभाव इति वामनः । अथवा महाकविप्रयोगप्राचुर्यदर्शनादव्ययीभावदर्शनं प्रायिकमिति पक्षाश्रयणाद्बहुव्रीह्यर्थोऽपि साधुरेव । तथा च सरजसं सरजसा वा ये अरुणकेशरास्तैश्चारुभिः तथा प्रियैर्विमानिता अवमानिता मानवत्यो मानिन्यस्तासां या रुपो रोषास्तासां निरसनैर्निरासकैः । अस्यतेः कर्तरि ल्युट् । असनैः प्रियकसूनैः । 'सर्जकासनबन्धूकपुष्प प्रियकजीवकाः' इत्यमरः । अवृथार्थता माननिरास - कत्वादस्यन्तीत्यसनानीत्यन्वर्थनामकत्वं दधे दधे । दधातेः कर्मणि लिट् ॥
मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः । धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ||१८||
मुखेति ॥ धृतो नवातपो येन तद्धृतनवातपम् । बालातपत्रामित्यर्थः । अम्भसि कमलं अम्भःस्थं कमलम् । अम्भोग्रहणं स्थलकमलनिवृत्यर्थम्, अम्लानताद्योतनार्थं वा । यतो मदपाटलां चकोरहशां स्त्रीणां मुखसरोजरुचं मुखारविन्दशोभामनुचकार । 'अनुपराभ्यां कृञः' इति परस्मैपदनियमः । अतोऽनुकरणाद्धेतोः कं पुमांसमुत्सुकतां प्रेयसीमुखावलोकन कौतुकितां नालम्भयन्नागमयत् । सर्वं चालम्भयदेव । तत्स्मारकत्वादित्यर्थः । एतेनौत्सुक्यवस्तुना कार्येण कारण