________________
षष्ठः सर्गः।
१५३ विवेकं लुम्पन्तमित्यर्थः । जलदकालं प्रावृट्कालमपरथा प्रकारान्तरेण आप प्राप। मेघोदयोपाधिना प्रावृड्व्यवहारभाजं तमेव कालं मेघात्ययोपाधिना शरत्संज्ञयोपलेभे इत्यर्थः । कालो हि एक एव सन्ननेकोपाधिसंबन्धानानात्वेनोपचर्यत इति तद्विदः॥
स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगतां दयितामिव । शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ॥ ४२ ॥ स इति ॥ अघानां नाशनं निवर्तनं कीर्तनं यस्य सोऽधनाशनकीर्तनः स हरिर्विकचमुत्पलमेव चक्षुर्यस्यास्तामच्छं शुभं गलत्स्रंसमानं यद्वसनं तस्योपमा सादृश्यं तस्याः क्षमा योग्या घना मेघा यस्यां सा ताम् । अत एव क्षितिभृतोऽङ्कगतामुत्सङ्गगतां दयितामिवेत्युत्प्रेक्षा । शरदमैक्षत ॥
जगति नशमशीतकरः करैवियति वारिदवृन्दमयं तमः। जलजराजिषु नैद्रमदिद्रवन्न महतामहताः क्वच नारयः ॥४३॥ जगतीति ॥ अशीतकर उष्णांशुः करैः स्वांशुभिर्जगति लोके निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' इति विकल्पादण् प्रत्ययः। तमस्तिमिरमदिद्रवद्रावयति स्म । निरस्तवानित्यर्थः । 'दु गतौ' । णौ चङि उपधाहस्वः । सन्वदावः । 'स्रवतिशृणोतिद्वतिप्लवतिच्यवतीनां वा' इत्यभ्यासस्य विकल्पावित्वम् । वियत्याकाशे वारिदवृन्दमयं मेघसङ्घरूपम् । स्वार्थे मयट् । तमः अदिद्रवत् । जलजराजिषु निद्रामेव नैदें निमीलनं तदेव तमः अदिगवत् । तथा हि-महतां महात्मनां अरयः क्वच क वा न नाहताः अहता न । किंतु सर्वत्र हता भवन्तीत्यर्थः। द्वितीयनिषेधप्रापितस्य प्रकृतार्थस्य हननस्य तृतीयेन निषेधः । पुनः केति कशब्दसामर्थ्यात्प्रकृतार्थपर्यवसानम् । वैधय॒ण सामान्याद्विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ४४ ॥ समय इति ॥ समयः काल एव शरीरिणां बलाबलं बलाबले । 'विप्रतिषिद्धं चानधिकरणवाचि' इति विकल्पावन्द्वैकवद्भावः । करोतीति प्रणिगदन्तः प्रतिपादयन्त इवेत्युत्प्रेक्षा । 'नेर्गदनद-' इत्यादिना णत्वम् । शरदि हंसरवाः परुषीकृतस्वरा निष्ठुरीकृतनादा मयूरा यस्मिन्कर्मणि तत्परुषीकृतस्वरमयूरं यथा तथा रमणीयतामयुः प्राप्ताः । यातेर्लङि 'लङः शाकटायनस्यैव' इति झे सादेशः 'उस्यपदान्तात्' इति पररूपं संहितायां 'ठूलोपे पूर्वस्य दीर्घोऽणः' शरत्प्रावृषोहसमयूरकूजिते माधुर्यामाधुर्यविपर्ययदर्शनात्काल एव प्राणिनां बलाबलनिदानं व्यक्तमभूदित्यर्थः ॥
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहंगमकूजितैः। जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ४५