________________
१५२
शिशुपालवधे
इत्यर्थः । तासां दिशां निजरजः स्वपरागं पटवासं पिधानमिवेत्युत्प्रेक्षा । अकिरदक्षिपत् । सखीवदिति भावः ॥
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरावभीरवः । प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ३८ प्रणयेति ॥ प्रणयकोपभृतः अत एव पराङ्मुखा विमुखा अपि । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विकल्पादाकारः । सपदि वारिधरारवेभ्यो गर्जितेभ्यो भीरवो भीताः। स्त्रिय इति शेषः । अथ अनन्तरं गर्जिताकर्णनानन्तरमेव प्रणयिनः प्रियान्परिरब्धुमालिङ्गितुं वलिरेचितान्यालिङ्गनार्थमङ्गप्रसारणात्रिवलिरिक्तीकृतानि मध्यमान्यवलग्नानि यासां ताः सत्यो ववलिरे प्रवृत्ताः । वलतेर्वकारादित्वात् 'न शसददवादिगुणानाम्' इत्येत्वाभ्यासलोपप्रतिषेधः ॥
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभवति । अभिहितेलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥३९॥ विगतेति ॥ पयोदनभस्वति मेघमारुते वाति वहति सति । वातेर्लटः शत्रादेशः । विगतरागगुणो विरक्तोऽपि को नरो न चलति । सर्वोऽपि चलत्येवेत्यर्थः । एवमलिभिरुच्चकैरुच्चैस्तरामनृतमसत्यं न भवतीत्यननृतं तस्मिन्नननृते सत्यवचनेऽऽभिहिते सति नवपल्लवैर्ननृत इव नृत्यं कृतमिवेत्युत्प्रेक्षा । नृतेर्भावे लिट् ॥
अरमयन्भवनादचिरद्युतेः किल भयादपयातुमनिच्छवः । यदुनरेन्द्रगणं तरुणीगणास्तमथ मन्मथमन्थरभाषिणः ॥४०॥
अरमयनिति ॥ अचिरघुतेर्विद्युतो भयात्किल भयादिव न तु तथा । किंतु रागादेवेति भावः। किलेत्यलीके । भवनाद्रमणगृहादपयातुं निर्गन्तुमनिच्छवः । भयव्याजात्तत्रैव स्थिता इति भावः । 'विन्दुरिच्छुः' इत्युप्रत्ययान्तो निपातः । मन्मथेन मन्थरमलसं भाषन्त इति मन्मथमन्थरभाषिणः। कामवशा इत्यर्थः । तरुणीगणास्तं प्रकृतं यदव एव नरेन्द्रास्तेषां गणमरमयरमयन्ति स्म । अत्र भयेन रागनिगृहनान्मीलनालंकारः। 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् । सोऽप्यागन्तुकेन भयेन सहजरागतिरोधानादागन्तुकेन सहजतिरोधानरूपः ॥ इति वर्षावर्णनम् ॥ अथ शरद्वर्णनमारभतेददतमन्तरिताहिमदीधिति खगकुलाय कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपरथाप रथावयवायुधः ॥४१॥
दद्तमिति ॥ रथावयवायुधश्चक्रायुधो हरिरन्तरिताहिमदीधितिं तिरोहितोष्णांशुं तथा खगकुलाय पक्षिसङ्घाय । कुलायेषु नीडेषु निलीयन्त इति कुलायनिलायिनः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । तेषां भावस्तत्ता तां ददतं प्रयच्छन्तम् । पक्षिसंचारं प्रतिबध्नन्तमित्यर्थः । 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । दिशामिति कर्मणि षष्टी । अबोधकृतमबोधकारिणम् । मेघावरणेन प्राच्यादि