________________
शिशुपालवधे
कान्तेति ॥ सहत इति सहः । पचाद्यच् । सरस्य सहः । कामोद्दीपक इत्यर्थः । तेनासवेन तोषितः तेन स्मरसहासवतोषितेन अत एव रसहासावस्य स्त इति रसहाखवता रागहास्यवता अत एव प्रेम्णा मनस्सु पुंसां चित्तेपूषितेन वसता । वसतेः कर्तरि क्तः । 'वसतिक्षुधोरिद' इतीडागमः ‘गतिबुद्धि-' इत्यादिसूत्रे चकाराद्वर्तमानार्थता । कान्तैव जनस्तेन कान्ताजनेन । जातावेकवचनम् । प्रसभं रहसि बलाद्गृहीतकेशे आकृष्टशिरोरुहे रते सुरते हेमन्ते भवा हैमन्यस्तासु हैमनीष्वपि । दाधीयसीप्वपीति भावः। 'सर्वत्राण् च तलोपश्च' इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च 'टिड्ढाणञ्-' इत्यादिना ङीप् । रजनीषु के युवानः शेरते स्म स्वपन्ति स्म । न केऽपीत्यर्थः । 'लट् स्मे' इति भूते लद । एतेनानिभूमिं गतः शृङ्गार इति व्यज्यते । वसन्ततिलका वृत्तम् ॥ अथैकेन शिशिरं वर्णयति
गतवतामिव विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृगिरमावली रसकलामलपल्लवलीलया ॥७८॥ गतवतामिति ॥ असकलामलपल्लवलीलया असकला असमग्रविकासिनोऽ. सला निर्मलाश्च ये पल्लवास्तेषां लीला तया । नृत्यरूपयेत्यर्थः । चिन्मयं गतवतासिव स्थितानामित्युत्प्रेक्षा। मधुकृतां मधुकराणां संबन्धिनी लवलीषु लताविशेषेषु लयो लयनं स्थितिर्यस्याः सा लवलीलया आवलिः पतिः रसकलां रसेन मध्धास्वादेन कलामव्यक्तमधुराम् । 'ध्वनौ तु मधुरास्फुटे । कलः' इत्यमरः । गिरं वाचमसकृदुच्चैरलपत् । मधुमदहेतुकस्य मधुकरालापस्य पल्लवलीलया जनितविस्मबहेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतूत्प्रेक्षा । द्रुतविलम्बितं वृत्तम् ॥
कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैविराममलिनां च न गानवाचः। श्रीमान्समस्तमनुसानु गिरौ विहर्तु
बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ७९ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के
ऋतुवर्णनं नाम षष्ठः सर्गः ॥ ६ ॥ कुर्वन्तमिति ॥ इतीत्थं पुष्पैरेवातिभरेण महाभरेण तत्कृतेन वा गौरवेण नगान्वृक्षानवाञ्चन्तीत्यवाचो नम्रान् । अञ्चेरवपूर्वात् 'ऋत्विक्-' इत्यादिना क्विन्प्रत्ययः । कुर्वन्तमलिनां गानवाचो गीतध्वनेझंकारस्य च न विराममविराममसमाप्ति कुर्वन्तं समस्तमृतुं सर्वानृतूननुसानु । सानुष्वित्यर्थः। विभक्त्यर्थेऽव्ययीभावः । विभ्रति बिभ्राणे इह गिरौ रैवतकाद्रौ विहाँ क्रीडितुं श्रीमान्स हरिर्मयूरगिरा केकया अचोदि प्रेरितः। भगवन्निह विहर ऋतुगणमनुगृहाणेति प्रार्थित इवेत्युस्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । वृत्तमुक्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध.
काव्यव्याख्याने सर्वकषाख्ये षष्ठः सर्गः ॥ ६ ॥