SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९५ द्वादशः सर्गः। पादैरिति ॥ कूबरिणां स्थानाम् । 'कूबरस्तु युगंधरः' इत्यमरः । स एषामस्तीति ते रथास्तेषां पादैश्चक्रैः पुरः पूर्वं विदारिताः ततो गजैः प्रकाममाकान्ततलाः भग्नरुक्तप्रकारेण पूर्वं भग्नत्वादुन्नतैरनन्तररुभयभागैः पूरितान्तराः समीकृतनिम्नप्रदेशाः। यद्वा पूर्व रथचक्रविदारितत्वाभग्नोन्नता अनन्तरं गजपतिपरिक्रमणेन पूरितानतप्रदेशाः भुवः कृष्टसमीकृताः पूर्वं हलैः कृष्टा अनन्तरं बीजवपनार्थ समीकृता इव बभुः शुशुभिरे ॥ दुर्दान्तमुत्कृत्य निरस्तसादिनं सहासहाकारमलोकयन्जनः । पर्याणतः स्रस्तमुरोविलम्विनस्तुरंगमं प्रद्रुतमेकया दिशा ॥२२॥ दुर्दान्तमिति ॥ उरोविलम्बिनः पर्याणतः पल्ययनतः स्रस्तमत एवोत्प्लुत्य निरस्तसादिनं स्वपृष्टात्पातितावरोहमेकया दिशा प्रद्रुतं पलायितं दुर्दान्तं दुर्विनीतं तुरंगमं हासकृतेन हाकारेण सह यथा तथा जनोऽवलोकयदवलोकितवान् ॥ भूभृद्भिरप्यस्खलिताः खलूनतैरपळुवाना सरितः पृथूरपि । अन्वर्थसंज्ञेव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥२३॥ भूभृद्भिरिति ॥ उन्नतैरपि भूभृद्भिः भूधरैर्भूपैश्वास्खलिता अप्रतिहताः पृथूमहतीरपि सरितो यमुनाप्रभृती दीरपहृवाना स्वमहिम्नाच्छादयन्ती त्रिभिर्मार्गर्गच्छतीति त्रिमार्गगा गङ्गा परमत्यन्तमन्वर्थानुगतार्था संज्ञा त्रिमार्गगेति नामधेयं यस्याः सेव खलु त्रिभिरेव मागैर्ययौ न चतुर्थेनेत्यर्थः । असौ चमूस्त्वसंख्यैः पथिभिर्ययौ। अतो गङ्गाया अप्यधिका चमूरिति भावः । अत एव व्यतिरेकालंकारः । 'भेदप्राधान्यसाधर्म्यमुपमानोपमेययोः। अधिकाल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥' इति तल्लक्षणात् ॥ त्रस्तौ समासन्नकरेणुसूत्कृतानियन्तरि व्याकुलमुक्तरजुके। क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घय लघ्वी करभौ बभञ्जतुः॥२४॥ त्रस्ताविति ॥ समासन्नस्य प्रत्यासन्नस्य करेणोरिभस्य सुत्कृतात्सल्कारानस्तौ करभौ वेसरौ । 'करभो वेसरेऽप्युष्ट्रे' इति सजनः । नियन्तरि सारथौ व्याकुलं व्यग्रं यथा तथा मुक्तरजुके त्यक्तप्रग्रहे सति क्षिप्ताः पतिता अवरोधाङ्गना यस्मिन्कर्मणि तद्यथा तथा उत्पथेनापथेन । 'ऋक्पू:-' इत्यादिना समासान्तः। गां भूमिं विलङ्घय दूरमतीत्य लघ्वी रथविशेषम् । 'लध्वी लाघवयुक्तायां प्रभेदे स्यन्दनस्य च' इति हैमः । बभञ्जतुर्भग्नवन्तौ । अत्र बासस्य विशेषणगत्या भञ्जनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं स्वभावोक्त्या संकीर्यते ॥ स्रस्ताङ्गसंधौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे । आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥२५॥ सस्तेति ॥ सस्ता विश्लिष्टा अङ्गयो रथाङ्गयोरङ्गानां करचरणादीनां च संधयः संधिभागा यस्य तस्मिन्विगतमक्षस्य चक्राधारकाष्ठस्याक्षाणामिन्द्रियाणां च पाटवं
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy