________________
२९४
शिशुपालवधे
गृह्णातीत्यङ्कुशग्रहो निषादी सोऽवमतो येन सः निषादिना साशं तिरोगतम् । अङ्कुशाकर्षणेन तिर्यग्भूतं शिरो मस्तकमुद्वहन्गजः अग्रयाताग्रकरः करिणीग्रहणाय प्रसारितकरायो भूत्वा स्थूलोच्चयेन गतिविशेषेणागमज्जगाम । 'गजमध्यगतौ स्थूलोच्चयः साकल्यपुञ्जयोः' इति रत्रप्रकाशः ॥ यान्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः। अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥१७॥
यान्त इति ॥ जवाद्वेगाच्चरणैरवनिमस्पृशन्त इव यान्तः सेनतुरगा अभितः प्रकीर्णैरुभयतः प्रसृतैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । कण्ठभूषणचामरहेतुभिरद्याप्यलूनपक्षा इवेति सविस्मयैर्जननिरे। पूर्वं तुरगाणामपि पक्षा आसन्पश्चात्केनचित्कारणेन देवैः पक्षच्छेदः कारित इति प्रसिद्धिः ॥ ऋज्वीर्दधानैरवतत्य कंधराश्वलावचूडाः कलघर्घरारवैः । भूमिमहत्यप्यविलम्बितक्रमं क्रमेलकैस्तत्क्षणमेव चिच्छिदे ॥१८॥
ऋज्वीरिति ॥ ऋज्वीरवक्राश्चलावचूडाश्चलितकण्ठभूषणाः । 'शिरःशिखाभूषणेषु चूडा' इति यादवः । चलितशिरस इति वा । कंधराः शिरोधरा अवतत्य वितत्य दधानः कलघर्घरारवैः । 'घर्घरा क्षुद्रघण्टी स्यात्' इति कोशः । अथवा घर्षरारव इति शब्दानुकरणम् । क्रमेलकैरुष्ट्रैरविलम्बितक्रमम् । क्रमः पदक्षेपः । द्रुतपादक्षेपं यथा तथा महत्यपि भूमिस्तत्क्षणमेव चिच्छिदेऽति. क्रान्ता । स्वभावोक्तिः ॥ तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि । आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तिभयादिवाद्रवत्।।१९।।
तूर्णमिति ॥ प्रणेना सारथिना प्रणोदितं गमनाय प्रेरितम् । अत एव उच्च. कैरुच्चस्तरां कृतनादं यथा तथा वेसरयुग्यम् । संकराश्वो वेसरः । वेसराभ्यां युग्यं शकटमात्मीयनेमिः स्वचक्रधारा तया क्षतस्य सान्द्रस्य मेदिनीरजसश्चयेन समूहेन यदाक्रमणं तद्भयादिव तूर्णमध्वन्यद्रवत् । आत्मीयनेमिसमुद्भूतधूलिजालेनास्पृष्टं सत् द्रुतमगमदित्यर्थः ॥ व्यावृत्तवरखिलैश्चमूचरैजद्भिरेव क्षणमीक्षिताननाः। वल्गनगरीयःस्तनकम्प्रकञ्चकं ययुस्तुरंगाधिरुहोऽवरोधिकाः ॥२०॥
व्यावृत्तेति ॥ व्यावृत्तवक्रेर्विवृत्तमुखैजगिरेवाखिलैश्चमूचरैः क्षणमीक्षिताननास्तुरंगाधिरुहः । तुरंगानधिरुहन्तीति क्विप् । तुरंगाधिरूढा अवरोधिका अवरोधस्त्रियो वल्गद्भिश्चलद्भिर्गरीयोभिर्गुरुतरैः स्तनैः कम्प्रः कम्पनशीलः कञ्चकः कूर्पासो यस्मिन्कर्मणि तद्यथा तथा ययुः । 'नमिकम्पि-' इत्यादिना रः प्रत्ययः ॥ पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः। भग्नोन्नतानन्तरपूरितान्तरा वभुर्भुवः कृष्टसमीकृता इव ॥ २१ ॥