________________
द्वादशः सर्गः ।
२९३
प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधताप्यमङ्कुशम् । मूर्धानमूर्ध्वायतदन्तमण्डलं धुन्वन्नरोधि द्विरदो निषादिना ॥ १२॥
प्रत्यन्येति ॥ अन्यनागं प्रति चलित ऊर्ध्वायतदन्तमण्डलं मूर्धानं धुन्वन्कपरदः कुण्ठमतीक्ष्णमङ्कुशं निरस्यान्यमकुण्ठमङ्कुशं दधता त्वरावता निपादिना अरोधि रुदुः ॥
संम्रच्छदुच्छ्रङ्खशङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि । सच्चानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृतां १३
संमूर्च्छदिति ॥ मूर्च्छा मोहसमुच्छ्राययोः' इति धातुः । संमूर्च्छन्नुच्छ्रायं गच्छन् यचुरीभवन्नुच्छृङ्खलोऽनर्गलः सर्वव्यापी शङ्खस्य निःस्वनो यस्मिन्सः शार्ङ्गिणि प्रयाते यातुमुपक्रान्ते पटहस्य स्वनः द्वयेषामुभयेषामपि मेदिनीभृतां राज्ञां पर्वतानां च महान्त्यपि सत्त्वानि बलानि भूतानि च नितरां व्यथां निन्ये । कृष्णस्य पटहश्रवणाद्वाज्ञां बलान्यभिभवशङ्कया व्यथितान्यासन् । तथा गिरिस्थिताः सिंहायो जन्तवश्च किमिदमिति ससाध्वसा आसन्नित्यर्थः । 'व्यवसाये स्वभावे च पिशाart गुणे बले । व्यात्मभावयोश्चैव सत्वं प्राणेषु जन्तुषु ॥' इति शाश्वतः ॥ कालीयकक्षोदविलेपनश्रियं दिशदिशामुहसदंशुमयुति । खातं सुरभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः || १४ ||
कालीयेति || कालीयं कुङ्कुमम् । 'काश्मीरजन्म घुसृणं कालीयं कुङ्कुमं विदु:' इति शाश्वतः । कालीयकक्षोदैः कुङ्कुमचूर्णैः कृतानुलेपनश्रियं दिशां दिशदधत् । उल्लसदंशुमद्दद्युति उद्यदादित्यसमा द्युतिर्यस्य तत् मुद्गभुजामश्वानां खुरैः खातं विदारितं काञ्चनभूमिजं रजो गिरेरधो गुरुत्वाद्विरेरधस्तादेव विपप्रथे विस्ती - र्णमभवत् ॥
मन्द्रैर्गजानां रथमण्डलस्वनैर्निजुहुवे तादृशमेव बृंहितम् । तार्श्वभूवे परभागलाभतः परिस्फुटैस्तेषु तुरंगहेषितैः ।। १५ ॥
मन्द्रैरिति ॥ मन्त्रैर्गम्भीरैः । 'मन्द्रस्तु गम्भीरे' इत्यमरः । रथमण्डलस्वनैः तादृशं तद्रूपमेव गजानां बृंहितं निजुहुवे तिरस्कृतम् । गजध्वनिरेकरूपत्वेन रथशब्दान्न पृथगश्रावीत्यर्थः । तारैरुच्चैर्मन्द्रस्वरविलक्षणैस्तुरंगहेषितैः परभागलाभतस्तेषु तादृशध्वनिगुणभेदलाभात्तेषु गजादिस्वनेषु परिस्फुटैर्बभूवे । तुरंग हेषाः सुव्यक्ता एव शुश्रुविर इत्यर्थः । 'बृंहितं करिणां शब्दो हेपा हेपा च वाजिनाम्' । बभूवे इति भावे लिट् । निजहुव इति कर्मणि लिट् ॥ अन्वेतुकामोऽवमताङ्कुशग्रहस्तिरोगतं साङ्कुशमुद्वहञ्शिरः । स्थूलोच्चयेनागमदन्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम्।। १६ । अन्वेत्विति ॥ अन्तिकागतां करेणुकां करिणीमन्वेतुकामोऽनुगन्तुकामः अङ्कुशं