________________
२९२
शिशुपालवधे
नवया प्रत्यग्रया उदुन्नता अराश्चक्रशलाकाः । 'अरः शीघ्रं च चक्राङ्गे' इति विश्वः । तेषां श्रिया, अन्यत्र उदरस्य मध्यस्य श्रिया शोभया विराजमानां विगता धूरग्रं यस्याः सा विधुरा । 'धूः स्त्री क्लीबे यानमुखम्' इत्यमरः । 'ऋक्पू:-' इत्यादिना समासान्तः । सा न भवतीत्यविधुरा ताम् । सधुरामित्यर्थः । अन्य त्राविधुरामविकलां रथीं शकटीम् । 'बबादिभ्यश्च' इति विकल्पेन ङीप् । वधू. मिव युयोज योजयामास । अत्र शब्दमात्रसाधर्म्यात्सभङ्गाभङ्गपदमिश्रणादुभयगोचरत्वाच्च प्रकृताप्रकृतगोचरागोचरः शब्दार्थश्लेषः ॥ उत्थातुमिच्छन्विधृतः पुरो बलानिधीयमाने भरभाजि यत्रके । अर्थोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम्॥९॥
उत्थातुमिति॥रौतीति रवण उदः । 'रु शब्दे' इति धातोः 'चलनशब्दार्थादकर्मकाधुच्' इति युच्प्रत्ययः । भारारोपणाय यन्त्ररूपणाय निर्मिते भरभाजि भारयुक्ते यन्त्रके गोण्यादौ निधीयमाने सति बलादुत्थातुमिच्छन्नुत्थाय गन्तुमिच्छन् अत एव पुरो मुखभागे विस्तो गृहीतः एवं स्वैराचारव्याघाततः अोज्झितेनोद्गारेण स्वजग्धपिचुमर्दादिपत्ररसनेन विझझरो विषमः स्वरो यस्य स रवण उष्ट्रः स्वनाम स्फुटार्थतां निन्ये । रौतीति रवण इति व्युत्पन्नं स्वनाम यथार्थमकरोदित्यर्थः ॥ नस्थागृहीतोऽपि धुवन्विपाणयोर्युगं ससूत्कारविवर्तितत्रिकः । गोणी जनेन स निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥१०॥
नस्येति ॥ नस्या । नासिकाया नसादेशः । नासिकायां भवा नस्या । दिगादित्वाद्यत् । तस्यां नासिकपोतरजौ गृहीतोऽपि विषाणयोर्युगं धुवन्विधुन्वन् शृंगद्वयं कम्पयन् । ससूत्कारेति । सूत्कार इति शब्दानुकरणम् । अमर्षजः सशब्दनिश्वासो वा ससूत्कारं यथा तथा विवर्तितं त्रिकं पृष्ठवंशाधरसन्धिर्येन । 'पृष्ठवं. शाधरे त्रिकम्' इत्यमरः । उक्षतरो महोक्षः पृष्ठे निधातुं जनेनानुक्षणमुद्धृतां गोणी न प्रतीच्छति स न स्वीकृतवान् । निधातुमवसरं न दत्तवानित्यर्थः ॥ नानाविधाविष्कृतसामजस्वरः सहस्रवा चपलैर्दुरध्ययः । गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः॥११॥
मानेति ॥ सामजा गजाः । ‘सामजौ गजसामोत्थौ' इति शाश्वतः । नानाविधमाविष्कृताः सामजानां स्वरा ध्वनयो बृंहितानि यस्मिन्सः सहस्रवर्मा बहुभिर्मागैर्गच्छन् । गन्धर्वा एव गान्धर्वा अश्वाः । 'वाजिवाहार्वगन्धर्व-' इत्यमरः । तैर्भूयिष्ठतया चपलैरस्थिरैः दुरध्ययो दुष्प्रापः । 'इण् गतौ' इत्यस्मात्कृच्छ्रार्थे खल् । ईदृशः स बलोदधिः सेनासमुद्रः सामवेदस्य समानतां दधौ । तत्समोऽभूदित्यर्थः । सामवेदोऽपि बहुधाविष्कृतबृहद्रथन्तरादिसामोत्थितस्वरः। सहस्रशाखत्वात्सहस्रवा। गान्धर्वगानबहुत्वाञ्चपलमतिभिरध्येतुमशक्य इत्यर्थः। 'इङ् अध्ययने' इत्यस्माद्धातोः खलि दुरध्यय इत्येवं रूपम् ॥