________________
सर्गः
द्वादश:
२९१
र्गत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना आणि कर्तुर्निपादिनः कर्मत्वम् । अत्र कर्त्रभि प्राये 'णिचश्च' इत्यात्मनेपदे सिद्धेऽपि प्रयोगवैचित्र्यस्याप्यलंकारत्वादकर्त्रभिप्राas 'रणौ यत्कर्म णौ चेत्स कर्तानाध्याने' इत्यात्मनेपदं वदन्ति । अणि कर्मणः करेणोरेवात्र ण्यन्ते कर्तृत्वात्तस्यैव चार्थात्कर्मत्वादिति । ननु यत्सग्रहणमनन्यकर्मार्थमित्युक्तं तेन कर्ममात्रनिषेधात्कथं निपादिनि कर्मण्यात्मनेपदम् | सत्यम् । अन्येषां मतम् । भाष्यकारस्य तु दर्शयते भृत्यान्राजेत्युदाहरणादणि कर्तृकर्मव्यतिरिक्तकर्मण एव निषेधो विवक्षित इति कैयटः । तदेतत्सम्यग्विवेचितमस्माभिः किरातार्जुनीयटीकायां घण्टापथे 'स सततं दर्शयते गतस्मयः' इत्यत्र । स्वभावोक्तिः ॥ स्वैरं कृतास्फालनलालितान्पुरः स्फुरत्तनून्दर्शितलाघवक्रियाः । वङ्कावल मैकसवल्गपाणयस्तुरंगमानारुरुदुस्तुरंगिणः ॥ ६ ॥
ः ।
स्वैरमिति ॥ तुरंगिणोऽश्वारोहाः पुरः पूर्वं स्वैरं मन्दं कृतं यदास्फालनं पाणितलेनाङ्गसंघट्टनं तेन लालिताननुपालितान् । त्याजितोद्वेगानित्यर्थः । अत एव स्फुरत्तनृन्कम्पितदेहांस्तुरंगमानश्वान्दर्शितं लाघवं शैन्यं यासु ताः क्रिया उत्पतनकर्माणि येषां ते । वङ्कः पल्याणकोटिः । वङ्कः पल्याणभागे स्वात् इति विश्वः । तत्रावलग्नः सक्त एकैकः सबगो मुखरज्जुसहितः पाणिर्येषां ते तथोक्ताः सन्त आरुरुहुरारूढाः । स्वभावोक्तिः ॥
अह्नाय यावन्न चकार भ्रयसे निपेदिवानासनवन्धमध्वने । तीव्रोत्थितास्तावदसारंहसो विशृङ्गलं शृङ्खलकाः प्रतस्थिरे ॥ ७ ॥
अह्नायेति ॥ निषेदिवानुपर्युपविष्टः । निषादीति शेषः । 'भाषायां सदवसश्रुवः' इति वसुप्रत्ययः । भूयसे दवीयसे अध्वने । भूयांसमध्वानं गन्तुमित्यर्थः । ' क्रियार्थोपपदस्य -' इति चतुर्थी । अह्नाय झटिति । 'द्वाक् झटित्यञ्जसाह्वाय' इत्यमरः । यावदासनबन्धं दूराध्वगमनौपयिकमासनविशेषं न चकार तावत्तीव्रं तीक्ष्णमुत्थिता असारंहसो दुःसहवेगाः शृङ्खलकाः करभा उष्ट्रभेदाः । 'करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः' इत्यमरः । विशृङ्खलमनर्गलं प्रतस्थिरे प्रस्थिताः । ‘समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । एषापि स्वभावोक्तिः ॥ गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया विराजमानां नवयोद्रश्रिया । कश्चित्सुखं प्राप्नुमनाः सुसारथी रथीं युगोजाविधुरां वधूमिव ||८||
गण्डेति ॥ सुखमक्लिष्टं यथा तथा प्राप्तुं गन्तुं मनो यस्य स प्राप्तुमनाः, अन्यत्र सुखमानन्दं लब्धुकामः । ' तुं काममनसोरपि' इति मकारलोपः । शोभनः सारथिर्यस्य स सुसारथिः, अन्यत्र सुसहायवान् । कश्चित्कोऽपि रथी, कामी च । गण्डैश्चिह्नैरुज्वलाम् । ‘गण्डः कपोले चिह्ने च' इति विश्वः । उज्जवलो नाभिर्बिलमध्यं ययोस्ते चक्रे रथाङ्गे यस्यास्तयोज्वलनाभिचक्रया, अन्यत्रोज्वलं नाभिचक्रं नाभिमण्डलं यस्यास्तया । 'नाभिः प्राण्यङ्गके क्षेत्रे चक्राङ्गचक्रवर्तिनोः' इति विश्वः ।