________________
२४६
शिशुपालवधे
जानती अनुनिन्ये । सापराधाहं क्षमस्वेति प्रार्थितवती । मत्तेषु किं न संभावितमिति भावः । एषा कलहान्तरिता ॥ कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् । ईययेव हरता हियमासां तद्गुणः स्वयमकारि मदेन ॥ ३० ॥ __कुर्वतेति ॥ मुकुलिताक्षियुगानामवसादितवाचां कुण्ठितगिरामासां स्त्रीणामङ्गसादमङ्गसादरूपशरीरनिश्चेष्टतां कुर्वता हियं हरता मदेन ईय॑येवेत्युत्प्रेक्षा । तस्या ह्रियो गुणस्तद्गुणः अक्षिनिमीलनवाक्सादाङ्गसादरूपः । स्वयमकारि कृतः । ह्रीमदयोस्तुल्यानुभावकत्वादिति भावः ॥ गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्चितदृशां प्रतिमेन्दुः। पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥ ३१ ॥
गण्डेति ॥ प्रतिमेन्दुः प्रतिबिम्बचन्द्रः सदृशीपु स्वसमानवर्णास्वञ्चितदृशां सुदृशां गण्डभित्तिषु पुरा सुरापानात्पूर्व न व्याञ्जि नाभेदि । तदेकतापत्त्या तद्विविक्ततया न गृहीत इत्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । विपूर्वाद ः कर्मणि लुङ् 'आड. जादीनाम्' इत्याडागमः । पश्चात्पानानन्तरं पानेन पानमदेन पाटलिता पाटलीकृता कान्तिर्यासां तासु गण्डभित्तिपु लोध्रचूर्णस्य लोध्रपरागस्य तिलकश्चित्रकम् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । तस्याकृतिरिवाकृतिर्यस्य स आसीत् । वैवाद्विविक्त एवासीदित्यर्थः । तिलकाकृतिरिति निदर्शना पूर्वोक्तसामान्यसंसृष्टा ॥ उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः । योषितामतिमदेन जुघूणुविभ्रमातिशयपुंषि वपूंषि ॥ ३२ ॥
उद्धतैरिति ॥ उद्धतैर्दृप्तैरिव कुचकुम्भैः परस्परसङ्गादन्योन्यसंघर्षादुभयत ईरितान्याकृष्टानि तथा विभ्रमातिशयं विलासविशेष पुष्णन्ति तानि । 'नपुंसकस्य झलचः' इति मुमागमः । योषितां वपूंषि । पूर्ववन्नुमागमः । “सान्तमहतः संयोगस्य' इति दीर्घः । विशेषः । अतिमदेन जुघूर्णः भ्रमुः । दृप्तसंघर्षस्तटस्थपीडाकरः । यथा वृषभकलहाद्वत्सपादभङ्ग इति भावः ॥ चारुता वपुरभूषयदासां तामनूननवयौवनयोगः। तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमुभूषः ॥ ३३ ॥
चारुतेति ॥ यासां योषितां वपुश्चारुता सौन्दर्यमभूषयत् । तां चारुतामनूननवयौवनयोगः संपूर्णयौवनसंपत्तिरभूषयत् । तं पुनर्नवयौवनयोगं तु मकरकेतनलक्ष्मीर्मदनसंपत्तिरभूषयत् । तां मकरकेतनलक्ष्मी दयितसंगम एव भूषा यस्य स मदोऽभूषयत् । तां मदः तं च दयितसंगम इत्यर्थः । प्रक्रमानुसारात्तां मदस्तमपि वल्लभसङ्ग इति प्रयोक्तव्ये विशेषणत्वेन प्रयोगो महाकवीनामनुद्वे.