________________
दशमः सर्गः। गात् । यथा भारवेः प्रयोगः 'शुचि भूषयती' त्यादौ श्लोके 'स नयाङ्कः स च सिद्धिभूषणः' इति वक्तव्ये 'स नयापादितसिद्धिभूषणः' इति । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वादेकावली । 'यत्रोत्तरोत्तरेपां स्यात्पूर्वपूर्व प्रति क्रमात् । विशेषकत्वकथनमसावेकावली मता ॥' इति लक्षणात् ॥
क्षीवतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु । अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः॥ ३४ ॥ क्षीवतामिति ॥ क्षीबतां मत्तताम् । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । 'क्षीय मदे' इत्यस्माद्धातोः 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निष्टान्तो निपातितः । उपगतासु प्राप्तासु । अत एवानुवेलं प्रतिक्षणं रोषपरितोषवतीषु तासु स्त्रीषु विषये अनङ्गः सशरं धनुरग्रहीन्नु, उज्झितनिषङ्गं त्यक्ततूणीरं यथा तथोज्झामास नु तत्याज किम् । उज्झतेर्लिद 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । रुष्टासु धनुर्ग्रहणं परितुष्टासु त्यागश्च रोषपरितोषाभ्यामुत्प्रेक्ष्यते । अन्यथा रोषानन्तरं परितोषः परितोषानन्तरं रोषश्च न स्यादिति भावः। रोषपरितोपयोर्धनुर्ग्रहणाग्रहणाभ्यां यथासंख्येनान्वयाद्यथासंख्यालंकारभेदः । तेनोप्रेक्षयोरङ्गाङ्गिभावेन संकरः ॥
शङ्कयान्ययुक्तौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव । न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः॥ ३५ ॥
शङ्कयेति ॥ वनिताभिरन्ययुवतौ सपन्यां शङ्कया तत्सङ्गशङ्कामात्रेण दयितः स्फुटमेव निश्चितवदेव प्रत्यभेदि । सिद्धवत्कृत्वोद्घाटित इत्यर्थः । अनुचितोऽयमविमृश्यमिथ्याभियोग इति शङ्कां परिहरति-नेति । मत्सरेण वैरेण हता संवृ. तिर्गोप्यगोपनं यस्य तच्चेतस्तत्त्वविचारे भूतार्थचिन्तायां क्षमं सहिष्णु न भवति । मत्सरग्रस्तचेतसामेप स्वभाव इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ आननैर्विचकसे हपिताभिर्वल्लभानभि तनूभिरभावि । आर्द्रतां हृदयमाप च रोपो लोलति स्म वचनेषु वधूनाम् ॥ ३६ ।।
आननैरिति ॥ वल्लभानभि । वल्लभसमक्षमित्यर्थः । 'अभिरभागे' इति लक्षगार्थकर्मप्रवचनीयत्वाद्वितीया । वधूनामाननैर्विचकसे विकसितम् । भावे लिट् । तनूभिरङ्गैर्हषिताभिः पुलकिताभिः । 'हृषेलोमसु' इतीडागमः । अभावि भूतम् । भावे लुङ् । हृदयं चार्द्रतामाप । काठिन्यं जहावित्यर्थः । वचनेषु रोषो लोलति चलति स्म । वचनगतो रोपो वक्रतापि निवृत्तेत्यर्थः । अत्र वधूष्वाननविकासाद्यनेकक्रियायोगपद्यात्समुच्चयालंकारः । 'गुणक्रियायोगपद्यं समुच्चयः' इति लक्षणात् ॥ रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि । चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ ३७॥