________________
दशमः सर्गः।
२४५
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः । प्रेयसामधररागरसेन खं किलाधरमुपालि ररञ्जः॥ २६ ॥
पानेति ॥ उपालि आल्याः समीपे । समीपार्थेऽव्ययीभावः । 'आलिः सखी वयस्या च' इत्यमरः । अत एव निभृतचुम्बनदक्षाः गूढचुम्बनचतुराः सुभ्रवः पानधौतनवयावकरागं मधुपानक्षालितलाक्षारागं स्वमधरं प्रेयसामधरेषु यो रागरसस्ताम्यूलरागद्वस्तेन ररनुः किल । अन्यगुणस्यान्यत्राधानमिह रओरर्थः । किलेत्यपरमार्थे । तेन पानधौतरागेषु स्वाधरेषु प्रेयोधररागसंक्रमणनाटितकेन सखीसमक्षमेव प्रियां चुम्बनं कारयामासुरित्यर्थः । अत्रागन्तुना रअनेन सहजचुम्बननिगृहनान्मीलनालंकारभेदः । 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् ॥ अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन । उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥२७॥
अर्पितमिति ॥ दयितेनान्ययुवतेः सपत्या नामग्राहं नाम गृहीत्वा । 'नाम्या दिशिग्रहोः' इति णमुल प्रत्ययः। अर्पितं दत्तं मद्यं रसितवत्यास्वादितवत्यपि । रसतेरास्वादनार्थात् क्तवतो 'उगितश्च' इति ङीप् । काचिदिति शेषः । मदमुज्झति स्म न ममादेत्यर्थः । इतरा तु सपत्नी तु मद्यमपिबन्त्यपि वीक्ष्य दृष्टैव ममाद मत्ता । मनोनिवृतिरेव मदहेतुरिति भावः । अत्र पूर्वार्धे रसितवत्यपि न ममादेति विशेषोक्तिः। उत्तरार्धे त्वपिबन्त्यपि ममादेति विभावना । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना। तत्सामग्यामनुत्पत्तिर्विशेषोक्तिनिगद्यते ॥' इति तयोः संकरः॥ अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निवृतिर्हि मनसो मदहेतुः ॥ २८ ॥ __अन्ययेति ॥ चित्तनाथं भर्तारमन्यवनितागतचित्तं सपत्नीसंक्रान्तचेतसमभिशङ्कितवत्या तस्मिन्नविश्वसत्या अन्यया कयाचित्स्त्रिया पीतभूरिसुरयापि न मेदे न मत्तम् । माद्यते ये लिट् । तथा हि मनसो निर्वृतिर्मदहेतुर्हि । सामान्येन विशेषसमर्थनादर्थान्तरन्यासः । एषा नवोढा भीरुश्च, अन्यथा साशङ्कायाः पानाघटनादिति ॥ कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा। कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ २९ ॥ ___ कोपवतीति ॥ प्राक्प्रथमं कोपवती सरोषा अत एवानुनयान्प्रियप्रार्थनान्यगृहीत्वा अनादृत्य । अथो संप्रति विरहखेदितचित्ता पश्चात्तापतप्ता काचिन्मधुमदेनाहितमोहा कृतचित्तविभ्रमा सती कान्तमेव कोपितमात्मना रोषितं कलयन्ती
१ 'भर्तुरोष्ठदल' इति पाठः