________________
२४४
शिशुपालवधे
ह्रीति ॥ सप्रसादं मनःप्रसादपूर्वकम् । ममेदं श्रेयस्करमिति भावनापूर्वकमित्यर्थः । अन्यथा फलोदय एव न स्यात् । 'दैवज्ञे भिषजे गुरौ' इति वचनादिति भावः। सेवितमुपभुक्तमिति हेतोर्मधु तासां सद्य एव फलदमासीत् । कुतः । हीविमोहं ब्रीडाजाड्यमहरत् रतिसुखाय सुरतसुखाय दयितानामन्तिकं निनाय । अत्र ह्रीहरणान्तिकनयनवाक्याभ्यां फलदानवाक्यार्थसमर्थनादनेकवाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन । सखदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ २३ ॥
दत्तमिति ॥ आत्तमदनमाहितमदनं यथा तथा दयितेन दत्तम् । अत एवा. तिशयिकेनातिशयप्रचुरेण । विनयादिभ्यष्टक् । रसेन स्वादेन व्याप्तम् । स्वादुतरमित्यर्थः । मुखस्य सुरा मुखसुरं गण्डूषमद्यम् । 'विभाषा सेनासुराच्छायाशा. लानिशानाम्' इति नपुंसकत्वम् । प्रकृष्टो मदो यासां ताभ्यः प्रमदाभ्यः स्त्रीभ्यः। 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानसंज्ञा । सस्वदे रुरुचे। प्रीतिकरमभूदित्यर्थः । कर्तरि लिट् । अत एव तदेव तासां मदकरं चासीदित्याह । नामेति रूढं प्रागश्वकर्णादिवदव्युत्पन्नं नामापि प्रमदेति नामधेयं च व्युदपादि व्युत्पन्नं जातम् । यथा प्रकृष्टमदयोगात्प्रमदेत्यन्वर्थनामत्वं भवेत्तथा तास्तेनामाद्यन्नित्यर्थः । पद्यतेरण्यन्ताकर्तरि लुङ् 'चिण ते पदः' इति चिण्प्रत्यये चिणो लुक् । 'प्रमदाभिः' इति पाठे सस्वदे। स्वदयांचवे इत्यर्थः । 'स्वादनमशनं भक्षणमाहारो भोजनं स्वदनम्' इति हलायुधे । स्वदिस्वाद्योरेकार्थत्वाभिधानात्कर्मणि लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुत्वात्काव्यलिङ्गम् ॥ . लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः। मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ २४ ॥
लब्धेति ॥ लब्धसौरभगुणो मेलनात्प्राप्तसौरभोत्कर्षः । अतएव मोदितालि. रानन्दितभृङ्गः मदिराणां मद्यानां अङ्गनास्यमेव चषकं तस्य च गन्धो गन्धगुणः इतरेतरस्य योगान्मिश्रणादन्यतामपूर्वतामतिशयं नु तत्रैवोत्कर्ष वाभजत् । यक्षकर्दमादौ घृताक्तकुङ्कुमादौ चोभयथा दर्शनादयं संशय इति भावः । अत एव संशयालंकारः॥ मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् । लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ २५ ॥
मानेति ॥ मानभङ्गपटुना कोपशमनसमर्थेन सुरतेच्छां तन्वता मदनोद्दीपके दृशि रागमारुण्यं प्रीतिं च प्रथयता प्रकाशयता अन्तरन्तःकरणं भावयता रञ्जयता मदेन प्रणयिनेव योषितः स्त्रियो लेभिरे प्राप्ताः । रागमिति श्लेषमूलातिशयोक्तिसंकीर्णेयमुपमा ॥