________________
४८८
शिशुपालवधे. __ अथेति ॥ अथ चैद्यजयानन्तरं वपुषा राजन्परः पुमानदृश्यतेति पञ्चमेन संबन्धः। तद्वपुस्तावत्रिभिर्विशिनष्टि । वक्षोमणेः कौस्तुभस्य छायया छुरितानि व्याप्तान्यापीतवासांसि पीताम्बराणि यस्य तेन । अत एव स्फुरता इन्द्रधनुषा भिन्नाः संगतास्तडितो यस्य तेन तडित्त्वता मेघेनेव स्थितेनेत्यर्थः ॥
॥यक्षरः॥ नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ॥ ८४ ॥ नीलेनेति ॥ पुनः कीदृशेन वपुषा । नीलेन श्यामलेन तथाऽनालं नालरहितं यन्नलिनं तत्र निलीना आसन्नाः उल्ललन्तीत्युल्ललनाश्चलाश्चालयो यस्य तेन अनालनलिननिलीनोल्ललनालिना । मुखसौरभलोभपरिभ्रमझमरेणेत्यर्थः । ललनानां विलासिनीनां स्त्रीणां लालनेन उपलालनेन । वशीकरणेनेत्यर्थः । अलमत्यन्तं लीलालोलेन क्रीडालोलुपेन । 'लीलालानेन' इति पाठे लीलानां विलासानामालानेन । आलयेनेत्यर्थः । ललयति भक्तानिति लालिना । भक्तानुकम्पिनेत्यर्थः । ब्यक्षरानुप्रासोऽलंकारः ॥
अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षर्विजयश्रिया ॥ ८५॥ अपूर्वयेति ॥ किंच अपूर्वयेव अपूर्वसमागमयेव तत्कालसमागमे सकामया साभिलाषया विजयश्रिया। वैद्यविरक्तयेति भावः । कटाक्षरपाइँदृष्टेनालोकितेन वपुषा राजन्दीप्यमानः । अत्र प्रस्तुतजयश्रीविशेषणसाम्यादप्रस्तुतानुरकमानिनीप्रतीतेः समासोक्तिः प्रतीयमानाभेदाध्यवसायादपाङ्गदर्शनोत्प्रेक्षा च ॥
॥यक्षरः॥ विभावि विभवी भाभो विभाभावी विवो विभीः।
भवाभिभावी भावावो भवाभावो भुवो विभुः ॥८६॥ विभावीति ॥ विभावोऽस्यास्तीति विभावी प्रभावसंपन्नः विभवोऽस्यास्तीति विभवी ऐश्वर्यवान् भस्याभेवाभा यस्य स भाभः । नक्षत्रवदुज्वल इत्यर्थः । विभां विशिष्टाभां भावयति संपादयति विश्वस्येति विभाभावी। 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । भुवो ण्यन्ताणिनिः । विना पक्षिणा वाति गच्छतीति विवः । पक्षिवाहन इत्यर्थः । 'आतोऽनुपसर्गे कः' । विभीनिर्भीकः । भवं संसा. रमभिभवतीति भवाभिभावी । भक्तानां संसारनिवर्तक इत्यर्थः। भुवो णिनिः । भावाअन्तूनवतीति भावावः विश्वत्राता। 'भावो लीलाक्रियाचेष्टाभूत्यभिप्राय जन्तुषु' इति वैजयन्ती। अवतः कर्मण्यण् । भवाभावोऽस्यास्तीति । संसारदुःखैरस्पृष्ट इत्यर्थः । अर्शआदित्वादच्प्रत्ययः । भुवो भूमेर्विभुर्भर्ता ॥