________________
एकोनविंशः सर्गः। ४८९ उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७॥ उपैत्विति ॥ एवंभूतः परः पुमान्परमपुरुषो हरिः । तत्पारं तस्य हरेः पारं अन्तमुपैतुकामैस्तं जिगीषुभिः । अन्यत्र दिक्षुभिरित्यर्थः । 'तुं काममनसोरपि' इति मकारलोपः । निश्चितैः । योद्धं कृतनिश्वयैरित्यर्थः । अन्यत्र निश्चिततत्वैः । सकर्मकादप्यविवक्षिते कर्मणि क्तः । यद्वा पीता गावः, विभक्ता भ्रातर इत्यादिवदूहयितव्यम् । स्फुटीकृतं चैतद्धण्टापथे ‘स वर्णिलिङ्गी विदितः' इत्यत्र । देहत्यागकृतोद्योगैमरणोद्यतैः । अन्यत्र मुमुक्षुभिरित्यर्थः । योगिभिः संनाहवनिरुपायवद्भिर्वा, अन्यत्र ध्यानवद्भिः । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । परैः शत्रुभिः, अन्यत्र परमयोगिभिः अदृश्यत । परेषामग्रेऽतिष्ठदित्यर्थः । अन्यत्र साक्षात्कृतः 'तमेव विदित्वातिमृत्युमेति' इति श्रुतेः। अर्थान्तरप्रतीतिर्ध्वनिरेव न श्लेषः । अभिधायाः प्रकृतार्थे नियन्त्रणात् ॥
॥गतप्रत्यागतम् ॥ युग्मेनाह
तं श्रिया घनयाऽनस्तरुचा सारतया तया । यातया तरसा चारुस्तनयाऽनघया श्रितम् ॥ ८८॥
तमिति ॥ घनया आनन्दसान्द्रया । अनस्तरुचा अक्षीणकान्त्या । सारतया सारस्वेन सर्वोत्कर्षगुणेन यातया व्याप्तया । चारुस्तनया रम्यकुचया। 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' इति विकल्पादनीकारः। अनघया निर्दोषया तया प्रसिद्वया श्रिया रमया तरसा त्वरया श्रितमालिङ्गितं तं हरिमुवीक्ष्येत्युत्तरेण संबन्धः। अनापि प्रातिलोम्येनार्धावृत्तेरर्धप्रतिलोमयमकम् । एतल्लक्षणं तु प्रागेवोक्तम् ॥
विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासनिरेनसः। अरुच्यमपि रोगनं निसर्गादेव भेषजम् ॥ ८९ ॥
॥ युग्मम्॥ विद्विष इति ॥ तं पूर्वोक्तं हरिमुवीक्ष्य विद्विषः शत्रवोऽद्विषुः द्विषन्ति स्म । लङि 'द्विषश्च' इति विकल्पेन झेर्जुसादेशः। तथापि द्विषन्तोऽपि निरेनसो निष्पापा आसन् । द्वेषवीक्षणस्याप्येनोनिवर्तकत्वं दृष्टान्तेनाह-अरुच्यमिति । रोचत इति रुच्यम् । 'राजसूय-' इत्यादिना क्यबन्तो निपातितः । अरुच्यमानमपि भेषजमौषधम् । 'भेषजौषधभेषज्यानि' इत्यमरः । निसर्गात्स्वभावशक्तेरेव रोगं हन्तीति रोगनमारोग्यकारि । ‘हरिहरति पापानि' इति वचनादिति भावः । 'अमनुष्यकर्तृके च' इति टप्रत्ययः॥