________________
४९०
। शिशुपालवधे विदितं दिवि केऽनीके तं यातं निजिताजिनि । विगदं गवि रोद्धारो योद्धा यो नतिमेति नः॥९०॥
॥प्रतिलोमेनायमेवार्थः॥ विदितमिति ॥ किंच योद्धा वीरो यो हरिः नतिं परेषां नम्रतां नैति नापैति । नितरां जिता आजयो येन तस्मिन्निजिताजिनि अनेकाजिविजयिन्यपि अनीके सैन्ये । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । यातं योद्धमागतम् । दिवि स्वर्गेऽपि विदितं प्रख्यातं विगदं निरामयं तं हरिं गवि भुवि । रोद्धारो जेतारः के। न केऽपीत्यर्थः । प्रातिलोम्येऽप्येत एव पदार्थवाक्यार्थाः । एतदपि श्लोकप्रतिलोमयमकमेव । पदपदार्थादिसंवादस्तु वैचित्रीविशेपः । लक्षणं तु निध्वनदित्यत्रैवोक्तमनुसंधेयम् ॥
नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगणं भर्चा कार्मुकमानमत् ॥ ९१॥ नियुज्यमानेनेति ॥ पुरोऽने अतिगरीयसि कर्मणि रणकर्मणि, अन्यत्र दुष्करे क्वचित्कृत्यवस्तुनि नियुज्यमानेन व्यापारयिष्यता, आज्ञापयिष्यता च भर्ना स्वामिना आरोग्यमाणोऽधिक्रियमाण उरुर्महान् गुणो ज्या यस्मिंस्तत् । अन्यत्र वर्ण्यमानसौन्दर्यादिकः । कर्मणे प्रभवतीति कार्मुकं धनुः 'कर्मण उक'। आनमत् गुणाकर्षणादाकुञ्चितकोटिकमभूत् । अन्यत्र प्रणत इत्यर्थः । अत्र प्रकृतकार्मुकविशेषणसाम्यादप्रस्तुतनियोज्यपुरुषप्रतीतेः समासोक्तिः ॥
तत्र बाणाः सुपरुषः समधीयन्त चारवः।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ ९२ ॥ तत्रेति ॥ तत्र कार्मुके शोभनानि परूंषि येषां ते सुपरुषः सुपर्वाणः । अत एव चारवोऽतिरम्या बाणाः समधीयन्त निहिताः । आकृष्टस्य तस्य कार्मुकस्यारवश्व द्विषां सुष्टु परुषः सुपरुषोऽतिकर्कशोऽभूत् । यमकविशेषालंकारः ॥
पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।
यो यो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ ९३ ॥ पश्चादिति ॥ नराणां पुंसामिव पश्चात्कृतानां निषङ्गसङ्गितया पृष्ठस्थापितानामपि, अन्यत्रावधीरितानामपि । पत्रिणामिषूणां मध्य इत्यर्थः । यो यः पत्री, नरश्च गुणेन ज्यया दाक्षिण्यादिना च संयुक्तः संबद्धः स स पत्री नरश्चास्य हरेः कर्णान्तं कर्णसमीपमाययौ आगतः । गुणयोगादाकर्णमाकृष्टः, अन्यत्रान्तिक. मागत इत्यर्थः । श्लेषसंकीर्णोपमा ॥
॥यक्षरः॥ प्रापे रूपी पराऽरेपाः परिपूरी परः परैः।