SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। रोपैरपारैरुपरि पुपूरेऽपि परोपरैः॥ ९४ ॥ ... , प्राप इति ॥ पुरा पूर्व रूपी मत्स्यकूर्माद्यनेकरूपवान् अरेपाः निष्पापः परिपूरयति कामैर्भक्तानिति परिपूरी भक्तवरदः । पूरयतेर्णिनिः । परः परमपुरुषो हरिः परैः शत्रुभिः प्रापे प्राप्तः । अवरुद्ध इत्यर्थः । अपरैरन्यैः शत्रुभिः कर्तृभिः अपारैरनन्तै रोपैरिषुभिः । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । पुरोऽग्रे उपरि च पुपूरे पूरितः । घृणातेः कर्मणि लिद । यक्षरानुप्रासोऽलंकारः ॥ दिसुखव्यापिनस्तीक्ष्णान्हादिनो मर्मभेदिनः। चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥ ९५ ॥ दिगिति ॥ स हरिर्दिङ्मुखव्यापिनो दिगन्तव्यापकान् । अतितीक्ष्णानिशितान्फ्रांश्च द्वादन्ते इति हादिनः पक्षनादवतः, सिंहनादवतश्च । मर्मभेदिनो मर्मस्थानविदारकान्सायकानिषून् , अहितानरीश्च एकक्षणेनैव चिक्षेप निरास । अत्र सायकानामहितानां च प्रकृतानामेव तुल्यधर्मयोगादौपम्योपगमात्तुल्ययोगिताभेदः ॥ . ॥ गूढचतुर्थः॥ शरवर्षी महानादः स्फुरत्कार्मुककेतनः। नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥९६ ॥ शरेति ॥ शरवर्षी बाणवर्षी नीरवर्षी च । 'शरं नीरे शरो बाणे' इति विश्वः । महानादः सिंहनादो, गर्जितं च यस्य स महानादः । स्फुरन्ती कार्मुककेतने धनुर्ध्वजौ यस्य सः । अन्यत्रेन्द्रचापचिह्न इत्यर्थः । नीलच्छविः श्यामकान्तिः । अस्य केशवस्य छलं कपटं यस्य सः नीरदः केशवच्छलनीरदो हरिमेघोऽसौ रेजे । रणरङ्गे सर्वोत्कर्षेण दिदीपे इत्यर्थः । अत्र छलशब्देन हरित्वापह्नवेन मेघत्वारोपणाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः। त्रिपाद्यन्तर्गतचतुर्थपादाक्षरत्वाद्ढचतुर्थाख्यश्चित्रविशेषः, शब्दालंकारश्चेति संकरः ॥ न केवलं जनैस्तस्य लघुसंधायिनो धनुः । मण्डलीकृतमेकान्ताद्वलमैक्षि द्विषामपि ॥ ९७ ॥ नेति ॥ लघु शीघ्रं संधत्ते यस्तस्य लघुसंधायिनस्तस्य हरेः धनुरेव केवलं एकान्तात् मण्डलीकृतं शीघ्राकर्षणानियमेन वलयीकृतं जनै क्षि । कर्मणि लुङ् । किंतु द्विषां बलमपि मण्डलीकृतं त्रासादेकत्र पुञ्जीकृतमैक्षि। अत्र धनुर्बलयोः प्रकृतयोरेव तुल्यधर्मयोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ १ अस्माद्धातोलिट्येशि 'ऋच्छत्य॒ताम्' इति गुणस्य दुरित्वात् 'पुपूरे' इति रूपासिद्धिः । तस्मात् 'पूरी आप्यायने' इति धातुर्बोध्यः ।
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy